________________
६८२
उत्तरज्झयणाणि-२ सोऽपि च तं भक्त्वा 'सुस्सुयाइत्त' त्ति सूत्कारान् कृत्वा 'उज्जुहित्त' त्ति प्रेर्य स्वामिनं शकटं वा पलायतेऽन्यतो धावतीति गाथात्रयार्थः ॥५-६-७॥ इत्थं दृष्टान्तमुक्त्वा दार्टान्तिकयोजनामाह
खलुंका जारिसा जोज्जा दुस्सीसा वि हु तारिसा ।
जोइया धम्मजाणंमि भज्जंती धिइदुब्बला ॥८॥ व्याख्या-खलुङ्का उक्तरूपा यादृशा गावो योज्या घटनीया दुःशिष्या अपि तादृशा एव । यथा हि खलुका गावः स्वस्वामिनं क्लामयन्ति, असमाधि च प्रापयन्ति एवमेतेऽपि गुरुमिति । एवं च कुतः ? इत्याह-यतो गुरुणा दुःशिष्या योजिता व्यापारिताः क्व ? धर्मयाने मुक्तिपुरप्रापकत्वेन धर्मवहने भज्यन्ते न सम्यक् प्रवर्तन्ते ‘धिइदुब्बल' त्ति 'प्राकृतत्वाद्' दुर्बलधृतयः 'धर्मं प्रतीति गम्यम्' ॥८॥ धृतिदुर्बलत्वमेव भावयति
इड्ढीगारविए एगे एगित्थ रसगारवे । सायागारविए एगे एगे सुचिरकोहणे ॥९॥ भिक्खालसिए एगे एगे ओमाणभीरुए ।
थद्धे एगं च अणुसासंमी हेऊहिं कारणेहि य ॥१०॥ अनयोर्व्याख्या-ऋद्ध्या गौरवं समृद्धाः श्राद्धा मे वश्याः, सम्पद्यते च यथेप्सितमित्यात्मबहुमानरूपमयस्यास्तीति ऋद्धिगौरविक एकः । एकोऽत्र दुःशिष्याधिकारे रसेषु मधुरादिषु गौरवं गायं यस्यासौ रसगौरविको बालाद्याहारदाने तपसि च न प्रवर्तते । साते सुखे गौरवं प्रतिबन्धस्तदस्यास्तीति सातगौरविक एकः, सुखप्रतिबुद्धो हि नाप्रतिबद्धविहारे प्रवर्तते । एकः सुचिरक्रोधनो दीर्घरोषतयैव प्रवृत्तत्वात् ॥ भिक्षायामालस्यिक आलस्यवान् भिक्षालस्यिक एको विहर्तुं नेच्छति । एकोऽपमानभीरुर्भिक्षां भ्रमन्नपि न यस्य तस्य गृहे प्रविशति । स्तब्धोऽहङ्कारवान् न स्वकदाग्रहात् कस्यापि नमयितुं शक्यः 'एक इति योज्यम्' । एकं च दुःशिष्यं 'अणुसासंमि' त्ति अनुशास्मि शिक्षां दद्मि हेतुभिः कारणैश्चोक्तरूपरिति चिन्तयित्वा ह्याचार्य आत्मनः समाधि प्रतिसन्धत्त इति गम्यते । इति गाथाद्वयार्थः ॥९-१०॥ । सा चानुशिष्यमाणः परं किं कुरुते ? इत्याह
सो वि अंतरभासिल्लो दोसमेव पकुव्वई । आयरियाणं तं वयणं पडिकूलेइ अभिक्खणं ॥११॥
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org