________________
६८१
सप्तविंशं खलुङ्कीयमध्ययनम्
खलुंके जो उ जोएइ विहम्माणो किलिस्सई । ___ असमाहिं च वेएइ तोत्तओ य से भज्जई ॥३॥
व्याख्या-खलुङ्कान् गलिवृषभान् योऽनिर्दिष्टस्वरूपः 'तुर्विशेषणे' योजयति योक्त्रयति 'वहने' इति प्रक्रमः । स किम् ? इत्याह-"विहम्माणो' त्ति विशेषण जंस्ताडयन् क्लिश्यत एवासमाधिं च चित्तोद्वेगं वेदयतेऽनुभवति तोत्रकः प्राजनकः 'से' तस्य खलुङ्कयोजयितुर्भज्यतेऽतिताडनाद् भङ्गमाप्नोति ॥३॥ ततश्चातिरुष्टः स यत् कुरुते, तदाह
एगं डसइ पुच्छंमि एगं विंधइऽभिक्खणं ।
एगो भंजइ समिलं एगो उप्पहपट्टिओ ॥४॥ व्याख्या-एकं दशति दशनैर्भक्षयति पुच्छे, एकमन्यं गलिं विध्यति प्राजनकारया तुदति 'उपलक्षणादश्लीलमशोभनं भाषते, क्रुध्यति च' अभीक्ष्णं पुनः पुनः । अथ किमेते कुर्वन्ति ? येन योजयितुरेवं निर्वेदहेतव इत्याह-एकः कश्चित् खलुङ्को गौर्भनक्ति समिलां युगरन्ध्रकीलिकामेकोऽन्य उत्पथमुन्मार्ग प्रस्थितो 'भवतीति गम्यते' ॥४॥
तथा
एगो पडइ पासेणं निवेसइ निवज्जई । उक्कुद्दइ उप्फिडई सढे बालगवी वए ॥५॥ माई मुद्धेण पडइ कुद्धे गच्छइ पडिपहं । मयलक्खेण चिट्ठाई वेगेण य पहावई ॥६॥ छिन्नाले छिंदई सिल्लिं दुईते भंजई जुगं ।
से वि य सुस्सुयाइत्ता उज्जुहित्ता पलायई ॥७॥ आसां व्याख्या-एकः पतति पाइँनैकाङ्गविभागेन 'भूमाविति गम्यम्', अन्यस्तु 'निवेसइ' त्ति निविशते उपविशति, अपरश्च 'निवज्जई' त्ति स्वपिति, अपर उत्कूदते ऊर्ध्वं गच्छति, 'उप्फिडइ' त्ति मण्डूकवदुत्प्लवतेऽन्यः, शठः शाठ्यवानन्यो 'बालगवी वए' त्ति बालगवीं तरुणां गां व्रजेत् तदभिमुखं धावेदित्यर्थः ॥ मायी मायावानन्यः मूर्जा मस्तकेन पतत्येको 'भुवीति गम्यम्', क्रुद्धः सन् गच्छति प्रतिपथमन्यः पश्चाद् वलतीत्यर्थः, मृतलक्ष्येण मृतमिषेण तिष्ठत्यास्ते चान्यः, कथञ्चित् प्रगुणीकृतो वेगेन प्रधावति यथाऽन्यो गन्तुं न शक्नोति तथा यातीत्यर्थः ॥ छिन्नालो दुष्टजातिः कश्चित् गौः छिन्नत्ति 'सिल्लिं' ति रश्मि बन्धनरज्जुमित्यर्थः, अन्यो दुर्दान्तो गौः भनक्ति युगं झूसरं,
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org