________________
सप्तविंशं खलुङ्कीयमध्ययनम्
इह पूर्वाध्ययने सामाचार्युक्ता, सा चाशठतयैव पालयितुं शक्या, विपक्षभूतशठताज्ञानत एवासौ जायत इति दृष्टान्तेन शठतास्वरूपनिरूपणेनाशठताभिधायकमिदं सप्तविंशमध्ययनमारभ्यते
थेरे गणहरे गग्गे मुणी आसी विसारए ।
आइन्ने गणिभावंमि समाहि पडिसंधए ॥१॥ व्याख्या स्थविरो धर्मे स्थिरीकरणात्, गणं गुणसमूहं धारयतीति गणधरो गार्यो गर्गगोत्रो मुनिरासीद् विशारदः सर्वशास्त्रवेत्ता । आकीर्ण आचार-श्रुतसम्पदादिभिराचार्यगुणैर्व्याप्तो गणिभावे आचार्यत्वे 'स्थित इति गम्यम्' समाधि ज्ञानाधुपयोगभावसमाधि प्रतिसन्धत्ते कर्मोदयात् त्रुटितमपि सट्टयति ‘पर्यन्ते परित्यागतः तथाविधशिष्याणामिति गम्यते' ॥१॥ स च समाधि सन्दधद् यथा शिष्येभ्य उपदिशति, तथाऽऽह
वहणे वहमाणस्स कंतारं अइवत्तई ।
जोए वहमाणस्स संसारं अइवत्तई ॥२॥ व्याख्या-उह्यतेऽनेनेति वहनं शकटादि तस्मिन् ‘योक्त्रितस्य इति गम्यते' वहमानस्य अन्तर्भूतणिगर्थतया तं च सम्यक् प्रवर्तयमानस्य 'उत्तरत्र खलुङ्कग्रहणादिह विनीतगवादेरिति गम्यते' अस्य च वाहकाविनाभूतत्वात् वाहकस्य च पामरादेः कान्तारमरण्यमतिवर्तते सुखातिवर्त्यतया स्वयमेवातिक्रामतीति । उपनयमाह-योगे संयमव्यापारे 'नियुक्तस्य इति शेषः' वहमानस्य 'अन्तर्भूतणिगर्थतया' तं च सम्यक् प्रवर्तयमानस्य शिष्यादेः प्रवर्तकस्य चाचार्यादेः संसारोऽतिवर्तते प्राग्वत् स्वयमेवातिक्रामति । इह च योगवहनमशठतेति ॥२॥
अथाशठतया किल समाधिरतस्तद्विपक्षभूतशठतादोषदुष्टासमाधिजनककुशिष्याणां स्वरूपं गुरुनिर्वेदकत्वं च दृष्टान्तेमाह
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org