________________
षड्विंशं सामाचार्याख्यमध्ययनम्
६७९ पडिक्कमित्तु निस्सल्लो वंदित्ताण तओ गुरुं ।
काउस्सग्गं तओ कुज्जा सव्वदुक्खविमोक्खणं ॥४९॥ गाथाद्वयमपि व्याख्यातप्रायमेव ॥४८-४९॥ कायोत्सर्गे स्थितः किं चिन्तयेद् ? इत्याह
किं तवं पडिवज्जामि एवं तत्थ विचिंतए ।
काउस्सग्गं तु पारित्ता वंदई य तओ गुरुं ॥५०॥ व्याख्या-किमिति किंरूपं तपो नमस्कारसहितादि प्रतिपद्येऽहमेवं तत्र विचिन्तयेत् । भगवान् श्रीवीरः षण्मासं यावन्निरशनो विहतवान् तत् किमहमपि स्थातुं शक्तो न वेति ? । एवं पञ्चमासाद्यपि यावन्नमस्कारसहितं तावत् परिभावयेत् । उत्तरार्धं स्पष्टम् ॥५०॥
पारियकाउस्सग्गो वंदित्ताण तओ गुरुं ।
तवं संपडिवज्जित्ता करिज्ज सिद्धाण संथवं ॥५१॥ व्याख्या-सुगमम् । नवरं तपो यथाशक्ति चिन्तितमुपवासादि सम्प्रतिपद्याङ्गीकृत्य कुर्यात् सिद्धानां संस्तवं स्तुतित्रयरूपं तदनु चैत्यसद्भावे तद्वन्दनं कार्यम् ॥५१॥ अध्ययनोपसंहारमाह
एसा सामायारी समासेन वियाहिया ।
जं चरित्ता बहू जीवा तिन्ना संसारसागरं ॥५२॥ त्ति बेमि ॥ व्याख्या-एषा सामाचारी दशविधौघरूपा च संक्षेपेण 'वियाहिया' त्ति व्याख्याता। पदविभागसामाचारी त्विह नोक्ता धर्मकथानुयोगत्वादस्य ग्रन्थस्य, च्छेदसूत्रान्तर्गतत्वाच्च तस्याः । अत्रास्याः फलमाह-यां सामाचारी चरित्वासेव्य बहवोऽनेके जीवास्तीर्णाः संसारसागरम् । इति ब्रवीमीति प्राग्वदिति ॥५२॥ ग्रं० १३१॥ इति श्रीकमलसंयमोपाध्यायविरचितायां सर्वार्थसिद्धौ श्रीउत्तराध्ययनटीकायां
षड्विशं सामाचार्याख्यमध्ययनं समाप्तम् ॥२६॥
__Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org