________________
६७८
उत्तरज्झयणाणि-२ कथं चतुर्थपौरुषीकृत्यं कर्तव्यम् ? इत्याह
पोरिसीए चउत्थीए कालं तु पडिलेहिया ।
सज्झायं तु तओ कुज्जा अबोहंतो असंजए ॥४४॥ व्याख्या-पौरुष्यां चतुर्थ्यां कालं वैरात्रिकं 'तुः पूरणे' प्रत्युप्रेक्ष्य प्रतिजागर्य प्राग्वद् गृहीत्वा च स्वाध्यायं ततः कुर्यात् । अबोधयन्ननुत्थापयन्नसंयतान् गृहिणस्तदुत्थापने तेषां तत्तत्पापस्थानप्रवृत्तिसम्भवात् ॥४४॥
पोरिसीए चउब्भाए वंदिऊण तओ गुरुं ।
पडिक्कमित्तु कालस्स कालं तु पडिलेहए ॥४५॥ व्याख्या-पौरुष्याश्चतुर्थ्याश्चतुर्थभागे 'अवशिष्यमाणे इति शेषः । तत्र हि कालवेलासम्भवान्न कालस्य ग्रहणम् । वन्दित्वा ततो गुरुं, प्रतिक्रम्य कालस्य वैरात्रिकस्य, कालं प्राभातिकं 'तुर्विशेषार्थे' 'पडिलेहए' त्ति प्रत्युपेक्षेत गृह्णीयाच्च, मध्यमप्रक्रमापेक्षं च कालत्रयग्रहणमुक्तमन्यथा ह्युत्सर्गत उत्कर्षेण चत्वारो जघन्येन त्रयोऽपवादतस्तु द्वावुत्कर्षतो जघन्यतस्त्वेक इति ॥४५॥
आगए कायवुस्सग्गे सव्वदुक्खविमोक्खणे ।
काउस्सग्गं तओ कुज्जा सव्वदुक्खविमुक्खणं ॥४६॥ व्याख्या-आगते कायव्युत्सर्गे प्राप्ते कायोत्सर्गसमये इत्यर्थः । सर्वदुःखविमोक्षणे । शेषं प्राग्वत् । यच्चेह पुनः पुनः सर्वदुःखविमोक्षणविशेषणाभिधानं तत् कायोत्सर्गस्यात्यन्तनिर्जराहेतुत्वख्यापनार्थम् । तथेह कायोत्सर्गग्रहणेन चारित्र-दर्शन-ज्ञानशुद्ध्यर्थं कायोत्सर्गत्रयं ग्राह्यम् । तत्र च तृतीये कायोत्सर्गे रात्रिकोऽतीचारश्चिन्त्यः ॥४६॥ एतदेवाह
राइयं च अइयारं चिंतिज्ज अणुपुव्वसो ।
नाणंमि दंसणंमि चरित्तंमि तवंमि य ॥४७॥ व्याख्या-रात्रौ भवं रात्रिकं 'चः पूरणे' अतीचारं चिन्तयेत् आनुपूर्व्या क्रमेण । ज्ञाने दर्शने चारित्रे तपसि 'चशब्दाद् वीर्ये च' शेषं कायोत्सर्गेषु च चतुर्विंशतिस्तवश्चिन्त्यतया प्रतीतः साधारणश्चेति नोक्तः ॥४७॥
ततश्च
पारियकाउस्सग्गो वंदित्ताण तओ गुरुं । राईयं तु अईयारं आलोएज्ज जहक्कमं ॥४८॥
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org