SearchBrowseAboutContactDonate
Page Preview
Page 253
Loading...
Download File
Download File
Page Text
________________ षड्विंशं सामाचार्याख्यमध्ययनम् इति कायोत्सर्गस्यैहिकफले सुदर्शन - मनोरमोदाहरणम् ||३८|| तत्र कायोत्सर्गे यच्चिन्तयेत्, तदाह देसियं च अईयारं चिंतिज्ज अणुपुव्वो । नाणंमि दंसणे चेव चरित्तंमि तहेव य ॥३९॥ व्याख्या- 'देसियं' ति 'प्राकृतत्वाद् वकारलोपे' दैवसिकं च सकलदिवसकृतं 'चः पूरणे' अतिचारमतिक्रमं चिन्तयेद् ध्यायेत । 'अणुपुव्वसो' त्ति आनुपूर्व्या क्रमेण । किं विषयं तं चिन्तयेद् ? इत्याह-ज्ञाने दर्शने चारित्रे तथैव च ||३९|| पारियकाउस्सग्गो वंदित्ताण तओ गुरुं । देसियं तु अईयारं आलोइज्ज जहक्कमं ॥४०॥ व्याख्या-पारितः समापितः कायोत्सर्गो येन स तथा । वन्दित्वा 'प्रस्तावाद् द्वादशावर्तवन्दनेन' ततोऽतीचारचिन्तनानन्तरं गुरुम् । 'देसियं' ति प्राग्वद् दैवसिकमतीचारमालोचयेत् प्रकाशयेद् गुरूणामेव यथाक्रममालोचनाऽऽसेवनक्रमानतिक्रमेण ॥४०॥ पडिक्कमित्ता निस्सल्लो वंदित्ताण तओ गुरुं । काउस्सग्गं तओ कुज्जा सव्वदुक्खविमुक्खणं ॥ ४१ ॥ ६७७ व्याख्या-प्रतिक्रम्यापराधस्थानेभ्यः प्रतीपं निवृत्य निःशल्यो मायादिशल्यरहितः 'सूचकत्वात् सूत्रस्य' वन्दनकपूर्वकं क्षमयित्वा वन्दित्वा द्वादशावर्तवन्दनेन तत इत्युक्तविधेरनन्तरं गुरुमाचार्यादिकम् । कायोत्सर्गं 'जातावेकवचनम्' चारित्र-दर्शन-ज्ञानविशुद्ध्यर्थं व्युत्सर्गत्रयरूपं ततो गुरुवन्दनानन्तरं कुर्यात् सर्वदुःखविमोक्षणं प्राग्वत् ॥४१॥ पारियकाउस्सग्गो वंदित्ताण तओ गुरुं । थुइमंगलं च काउं कालं संपडिलेह ॥४२॥ व्याख्या-पूर्वार्धं स्पष्टम् । स्तुतिमङ्गलं च स्तुतित्रयात्मकसिद्धस्तवरूपं कृत्वा कालं सम्प्रत्युपेक्षेत कोऽर्थः ? प्रतिजागर्ति 'उपलक्षणाद् गृह्णाति च' कालविधिश्चागमादवसेयः ॥४२॥ पढमं पोरिसि सज्झायं बिइयं झाणं झियायई । तइयाए निमोक्खं तु सज्झायं तु चउत्थी ॥ ४३ ॥ व्याख्या- प्राग् व्याख्यातैव । नवरमयमर्थो गुरुभिः पुनः पुनरुपदेष्टव्य एव, न प्रयासो मन्तव्य इति पुनरस्याभिधानमिति ॥४३॥ Jain Education International 2010_02 For Private & Personal Use Only www.jainelibrary.org
SR No.002566
Book TitleAgam 43 Mool 04 Uttaradhyayan Sutra Part 02
Original Sutra AuthorN/A
AuthorKamalsanyamvijay, Vajrasenvijay
PublisherBhadrankar Prakashan
Publication Year2009
Total Pages516
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_uttaradhyayan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy