________________
६७६
दुष्टोऽयमिति रुष्टेनादिष्टो वध्यः स भूभुजा । वध्यभूमौ समानिन्ये तलारक्षैर्विडम्बितम् ॥१०॥ मा कुप्य क्वाप्यरे जीव ! दैन्यं मेहि क्षमां भज । स्वकर्मोपार्जितं ह्येतत् स शुद्धात्मेत्यभावयत् ॥११॥ इतश्च तत्प्रिया श्रुत्वा प्रियोदन्तं श्रवः कटुम् । निदध्याविति दुःखार्ता कलङ्की मत्प्रिये न हि ॥१२॥ विधोर्यदि ज्वलज्ज्वाला वह्नेज्वलाश्च शीतलाः । जायन्ते तर्हि मे भर्ता स्वीयं शीलं स दूषयेत् ॥ १३॥ ततः सार्हन्तमभ्यर्च्य कायोत्सर्गेण तस्थुषी । पतिव्यसनशान्त्यर्थं स्मृत्वा शासनदेवताम् ॥१४॥ सा चागत्यावदद् वत्से ! किं कुर्वेऽहं त्वदीप्सितम् ? | तयोचे मत्प्रियालीककलङ्कं त्वमपाकुरु ॥१५॥ `चकार तत्र गत्वा द्राक् शूलं सौवर्णविष्टरम् । प्रहारान् हार—–केयूराद्यलङ्कारांश्च तस्य सा ॥१६॥ कैश्चिदुक्तं नृपस्याग्रे दृष्ट्वा तं सोऽपि तादृशम् । विस्मितः क्षमयामास स्वागोऽज्ञानविजृम्भितम् ॥१७॥ सन्तोऽर्हद्धर्ममाहात्म्यसाक्षात्फलचमत्कृताः । धर्मो जयति नाधर्म इत्युज्जुघुषुरुच्चकैः ॥ १८ ॥ एवं शुभायतेः कायोत्सर्गस्योदर्कमद्भुतम् । मत्वैतस्य घनाः पौरा आहता धर्ममार्हतम् ॥ १९॥ ततः पट्टेभमारोह्य वस्त्राद्यैरतिसत्कृतः । ध्रियमाणातपत्रः स भूपेन प्रापितो गृहम् ॥२०॥ ततो मनोरमा हृष्टा प्रिये निर्दोषमागते । कायोत्सर्गं पारयित्वा वर्धापनमहो व्यधात् ॥२१॥ यथा सुदर्शन श्रेष्ठी कायोत्सर्गप्रभावतः । निष्कलङ्की यशः सौख्यं चाप्तवानिह निर्भरम् ॥ २२॥ तथा भवत भो भव्याः ! कायोत्सर्गे तु सादराः । यथेह प्राप्य कीर्त्यादि क्रमात् सिद्धिमवाप्नुत ॥ २३॥
Jain Education International 2010_02
उत्तरज्झयणाणि - २
For Private & Personal Use Only
www.jainelibrary.org