________________
षड्विंशं सामाचार्याख्यमध्ययनम्
६७५ __व्याख्या-भूमिशब्दस्य प्रत्येकमभिसम्बन्धात् प्रस्रवणभूमिमुच्चारभूमिं च प्रत्येकं द्वादशस्थण्डिलात्मिकां 'चशब्दात् कालभूमिं च स्थण्डिलत्रयात्मिकां' प्रतिलेखयेत् । 'जय'ति यतमानो यतिरेवं सप्तविंशतिः स्थण्डिलानीत्थं विशेषतो दिनकृत्यमुक्त्वोत्तरार्धेन रात्रिकृत्यमारभते । कायोत्सर्ग ततो भूमिप्रतिलेखनानन्तरं कुर्यात् सर्वदुःखविमोक्षणम् । तथात्वं चास्य कर्मापचयहेतुत्वात् । यतः
___ "काउस्सग्गे जह सुट्ठियस्स भज्जंति अंगमंगाई।
तह भिंदंति सुविहिया अट्टविहं कम्मसंघायं" ॥१॥ किञ्च कायोत्सर्गस्य फलं द्विधा ऐहिकमामुष्मिकं च । तत्रैहिकं यशः-सुराकुष्ट्यादि, आमुष्मिकं च स्वर्गादि, परम्परया सिद्धिश्च । तत्रैहिकफले दृष्टान्तः
चम्पायां गतकम्पायामनन्ताद्भुतसम्पदि । आसीत् सुदर्शन श्रेष्ठी सुदर्शने सुदर्शनः ॥१॥ सर्वज्ञोपज्ञधर्मज्ञा शीलप्रोल्लसदुज्ज्वला । मनोरमा गुणैस्तस्या जाया जाता मनोरमा ॥२॥ कायोत्सर्ग सदाऽऽदत्ते श्रेष्ठी सद्ध्यानलीनहृत् । शून्यगेह-स्मशानादौ चतुर्दश्यादिपर्वसु ॥३॥ दधिवाहनराज्ञस्तं पट्टदेव्यभयाऽऽह्वया । शुद्धान्ते प्रतिमाव्याजाद् दूत्याऽऽनाययदन्यदा ॥४॥ ततोऽभयाऽभणच्छेष्ठिन् ! मत्संसर्ग करोषि चेत् । करोमि राज्यसर्वस्वस्वामिनं त्वां तु निश्चितम् ॥५॥ तथापि नाङ्गीचक्रेऽसौ तद्वचो दृढमानसः । सा पुनः क्षोभयामास हाव-भावादिभिस्तकम् ॥६॥ सुदर्शनो न चुक्षोभ स्वयम्भूरमणाब्धिवत् । पूच्चकाराथ सा बाढं क्षणाद् भृत्यास्ततोऽमिलन् ॥७॥ राज्ञः सोऽदर्शि तैस्तेनाचिन्ति शीलकलङ्ककृत् । नायं कदापि दान्तात्मा सर्वदा स्ववशेन्द्रियः ॥८॥ श्रेष्ठिन्नत्रासमे स्थाने केनानीतस्त्वमै कथम् ? ।
इति पृष्टोऽपि भूपेन स क्षमी मौनमाश्रयत् ॥९॥ १. कायोत्सर्गे यथा सुस्थितस्य भज्यन्तेऽङ्गोपाङ्गानि ।
तथा भिन्दन्ति सुविहिता अष्टविधं कर्मसङ्घातम् ॥१॥
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org