________________
६७४
उत्तरज्झयणाणि-२ षट् स्थानान्येवाह
आयंके उवसग्गे तितिक्खया बंभचेरगुत्तीसु ।
पाणिदया-तवहेउं सरीरवुच्छेयणट्ठाए ॥३४॥ व्याख्या-आतङ्के ज्वरादिरोगे, उपसर्गे 'उन्निष्क्रमणार्थं' स्वजनादिकृते दिव्यादौ चोभयत्र 'तन्निवारणार्थमिति गम्यम्' । तथा तितिक्षा सहनं तया हेतुभूतया क्व ? ब्रह्मगुप्तिषु, ता हि नान्यथा सोढुं शक्यते । प्राणिदयाहेतोर्वर्षादौ निपतदप्कायादिजीवरक्षायै तपश्चतुर्थादिरूपं तद्धेतोः । तथा शरीरस्य व्युच्छेदः परिहारस्तदर्थं चोचितकाले संलेखनामनशनं वा कुर्वन् 'भक्तपानं न गवेषयेदिति सर्वत्र योज्यम्' ॥३४॥ तद्गवेषणायां विधि क्षेत्रावधि चाह
अवसेसं भंडगं गिज्झा चक्खुसा पडिलेहए ।
परमद्धजोयणाओ विहारं विहरए मुणी ॥३५॥ व्याख्या-अवशेषं समस्तं भाण्डमुपकरणं गृहीत्वा चक्षुषा प्रत्युपेक्षेत 'उपलक्षणत्वात् प्रतिलेखयेच्च' । ततस्तदादाय परमुत्कृष्टमर्धयोजनादर्धयोजनमाश्रित्य 'क्यब्लोपे पञ्चमी' परतो हि क्षेत्रातीतमशनादि स्यात् । विहारं विहरेद् विचरेन्मुनिः ॥३५॥ इत्थं विहृत्योपाश्रयं चागत्य भुक्त्वा यत् कुर्यात् तदाह
चउत्थीए पोरिसीए निक्खिवित्ताण भायणं ।
सज्झायं च तओ कुज्जा सव्वभावविभावणं ॥३६॥ __व्याख्या-चतुर्थ्यां पौरुष्यां निक्षिप्य प्रत्युपेक्ष्य बद्ध्वा च भाजनं पात्रं स्वाध्यायं ततः कुर्यात् सर्वे भावा जीवादयस्तेषां विभावनं प्रकाशकम् ॥३६॥
पोरिसीए चउब्भाए वंदित्ता ण तओ गुरुं ।
पडिक्कमित्ता कालस्स सिज्जं तु पडिलेहए ॥३७॥ व्याख्या-पौरुष्याः 'प्रक्रमाच्चतुर्थ्याः' चतुर्भागे 'शेषे इति गम्यते', वन्दित्वा ततः स्वाध्यायादनन्तरं गुरुं, प्रतिक्रम्य कालस्य, शय्यां वसतिं 'तुः पूरणे' प्रतिलेखयेत् ॥३७॥
ततश्च
पासवणुच्चारभूमिं च पडिलेहिज्ज जयं जई । काउस्सग्गं तओ कुज्जा सव्वदुक्खविमुक्खणं ॥३८॥
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org