________________
६७३
षड्विंशं सामाचार्याख्यमध्ययनम्
___ व्याख्या-सुगमा । नवरमौत्सर्गिकमेतदन्यथा स्थविरकल्पिकानां यथाकालमेव भक्तादिगवेषणम् । तथाह-सइ काले चरे भिक्खू'त्ति षण्णां कारणानां 'अण्णयरायंमि'त्ति अन्यतरस्मिन् कारणे समुत्थिते सञ्जाते, न तु कारणं विनेति भावः । इह कारणग्रहणं 'भोजनोपलक्षणम्' । गुर्वाद्यर्थं उक्तकारणव्यतिरेकेणापि तद्ग्रहणस्य सम्भवात् । किं चान्यत्र भोजने एवैतानि कारणान्युक्तानि ॥३१॥ तान्येव कारणान्याह
वेयण-वेयावच्चे इरियट्ठाए य संजमट्ठाए ।
तह पाणवत्तियाए छटुं पुण धम्मचिंताए ॥३२॥ व्याख्या-वेदनायै क्षुत्-पिपासोत्पन्नवेदनोपशमनायेत्यर्थः । तथा क्षुत्–पिपासाभ्यां बाधितो गुरुवैयावृत्त्यादौ न क्षमः स्यादिति वैयावृत्त्याय । तथा ईर्यायेर्यासमित्यर्थाय तदाकुलितस्य निर्जरार्थिनोऽपि चक्षुर्ध्यामपश्यतः तस्याः पालयितुमशक्यत्वात् । तथा संयमार्थाय तदातत्वेन महाव्रतावश्यकादे१ःपाल्यत्वात् । तथा 'पाणवत्तिय'त्ति प्राणप्रत्ययं जीवितनिमित्तम् । अविधिना ह्यात्मनोऽपि प्राणोपक्रमे हिंसा स्यात् । उक्तं च
"भावियजिणवयणाणं ममहत्तरहियाण णत्थि हु विसेसो ।
अप्पाणंमि परंमि य तो वज्जे पीडमुभओ त्ति(वि)" ॥१॥ तथा षष्ठं पुनरिदं यदुत धर्मचिन्तायै धर्मध्यान-श्रुताभ्यासरूपायै 'भक्तपानं गवेषयेदिति सर्वत्रानुवर्तनीयम्' इयं च तदाकुलितचेतसो न स्यादातध्यानसम्भवात् । किञ्चभिः कारणैर्यथा स्वार्थं तथा गुर्वाद्यर्थमपि भक्तपानं गवेषयेदिति भावः ॥२२॥ एभिः कारणैः किमवश्यं भक्तादि गवेषयेद् ? उत नेत्याह
निग्गंथो धिइमंतो निग्गंथी वि न करिज्ज छहिं चेव ।
ठाणेहिं तु इमेहि अणइक्कमणा य से होइ ॥३३॥ व्याख्या-निर्ग्रन्थो यतिधृतिमान् धर्माचरणं प्रति तथा निर्ग्रन्थ्यपि न कुर्याद् 'भक्त–पानगवेषणामिति प्रक्रमः' षड्भिश्चैव स्थानस्तु पुनरेभिर्वक्ष्यमाणैरेवं च किम् ? इत्याह–'अणइक्कमणा'त्ति अनतिक्रमणं संयमयोगानामनुल्लङ्घनं 'चशब्दो यस्मादर्थे' यस्मात् 'से' तस्य तस्या वा निर्ग्रन्थ्या भवति । अन्यथा तदतिक्रमणसम्भवात् ॥३३॥
१. सति काले चरेद् भिक्षुः । २. भवितजिनवचनानां ममत्वरहितानां नास्ति हु विशेषः ।
आत्मनि परस्मिंश्च तद् वर्जयेत् पीडमुभय इति (अपि) ॥१॥
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org