SearchBrowseAboutContactDonate
Page Preview
Page 248
Loading...
Download File
Download File
Page Text
________________ उत्तरज्झयणाणि - २ व्याख्या- अन्यूनातिरिक्ता न न्यूनाधिका प्रतिलेखा, इह च न्यूनताऽऽधिक्ये स्फोटना–प्रमार्जने वेलां चाश्रित्य वाच्ये । 'अविवच्चास'त्ति विविधो व्यत्यासो वैपरीत्यं यस्यां सा विव्यत्यासा न तथा अविव्यत्यासा पुरुषोपधिविपर्यासरहिता 'कर्तव्येति शेषः ' । अत्र च त्रिभिर्विशेषणपदैरष्टौ भङ्गाः सूचिताः । स्थापना चेयम् 555 । ऽ ऽ SIS ।। ऽ ऽ ऽ । । ऽ । ऽ । । | | | एतेषु च प्रथमं पदमन्यूना अनतिरिक्ता अविपर्यासा इत्येवं प्रथमभङ्गरूपं प्रशस्तं निर्दोषतया शुद्धं शेषाणि तु पदानि द्वितीयादिभङ्गरूपाण्यप्रशस्तानि तेषु न्यूनताद्यन्यतमदोषसम्भवात् । ततः प्रथमभङ्गानुपातिन्येव प्रतिलेखना कार्येति भावः ||२८|| ६७२ एवंविधमप्येनां कुर्वता यत् त्याज्यं तदाह— पडिलेहणं कुणंतो मिहो कहं कुणइ जणवयकहं वा । देइ व पच्चक्खाणं वाएइ सयं पडिच्छइ वा ॥२९॥ व्याख्या - प्रतिलेखनां कुर्वन्मिथः कथां परस्परसम्भाषणात्मिकां करोति जनपदकथां वा ‘स्त्र्यादिकथोपलक्षणमिदम्' । ददाति वा प्रत्याख्यानमन्यस्मै, वाचयति पाठयत्यपरं, स्वयं प्रतीच्छति गृह्णात्यालापकादिकं ‘य इति गम्यम्' ॥२९॥ स किम् ? इत्याह पुढवी आउक्काए तेऊ - वाऊ - वणस्सइ-तसाणं । पडिलेहणापमत्तो छण्हं पि विराहगो होइ ॥ ३० ॥ व्याख्या - स्पष्टा । नवरं पृथिव्यादीनां प्रतिलेखनाप्रमत्तो मिथः कथादिना षण्णामप्यास्तामेकादीनामित्यपेरर्थः । विराधकश्चैवम् - प्रमत्तो हि कुम्भकारशालायां स्थितो जलघटादिकं प्रलोठयेत् । ततस्तज्जलेन मृदग्नि - बीज - कुन्थ्वादयः प्लाव्यन्ते, प्लावनातश्च विराध्यन्ते । यत्र चाग्निस्तत्रावश्यं वायुः 'वीऊतेऊसहगया' इत्युक्तत्वात् । एवं षण्णामपि द्रव्यो विराधकत्वम् । भावतस्तु प्रमत्ततया अन्योऽपि विराधको भवति । जीवरक्षाहेतुत्वात् प्रतिलेखनायाः, हिंसाहेतुत्वान्मिथः कथादीनां त्याज्यतोक्तेति भावः । इत्थं प्रथम- पौरुषीकृत्यमुक्तम् । तत: 'बीए झाणं झियायइ' इति वचनेन ध्यानमप्युक्तमुभयं चैतदवश्यं कर्तव्यम् ॥३०॥ अथ तृतीयपौरुषीकृत्यमाह तइयाए पोरिसीए भत्तं - पाणं गवेसए । छण्हमण्णयरायंमि कारणंमि उवट्ठिए ॥३१॥ १. वायुतेजः सहगतौ । २. द्वितीये ध्यानं ध्यायति । Jain Education International 2010_02 For Private & Personal Use Only www.jainelibrary.org
SR No.002566
Book TitleAgam 43 Mool 04 Uttaradhyayan Sutra Part 02
Original Sutra AuthorN/A
AuthorKamalsanyamvijay, Vajrasenvijay
PublisherBhadrankar Prakashan
Publication Year2009
Total Pages516
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_uttaradhyayan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy