________________
षड्विंशं सामाचार्याख्यमध्ययनम्
६७१
वस्त्रप्रस्फोटनात्मकाः क्रियाविशेषा येषु ते षट्पूर्वाः 'नव' त्ति नवसङ्ख्याः 'खोड'त्ति खोटकाः श्रुतप्रतीताः स्फोटनात्मकाः 'कर्तव्या इति शेष:' । पाणौ पाणितले प्राणिनां कुन्थ्वादिसत्त्वानां विशोधनं प्रस्फोटनं त्रिकत्रिकोत्तरकालं त्रिकत्रिकसङ्ख्यं पाणिप्राणिविशोधनं कर्तव्यम् ||२५||
प्रतिलेखनादोषत्यागमाह
आरभडा संमद्दा वज्जेयव्वा य मोसली तइया । पप्फोडणा चउत्थी विक्खित्ता वेइया छुट्टी ॥ २६ ॥ पसिढिल - पलंब - लोला एगामोसा अणेगरूवधुणा । कुणइ पमाणि पमायं संकिए गणणोवगं कुज्जा ॥२७॥
अनयोर्व्याख्या - आरभटा विपरीतकरणं त्वरितं वान्यान्यवस्त्रग्रहणेन । संमर्दा वस्त्रान्तकोणसञ्चलनमुपधेरुपरि निषदनं वा 'वर्जयितव्येति सम्बद्ध्यते' । मोसली तिर्यगूर्ध्वमधो वा घट्टना तृतीया । प्रस्फोटना रेणुगुण्डितस्येव वस्त्रस्य प्रकर्षेण झाटना चतुर्थी । विक्षेपणं विक्षिप्ता 'पञ्चमीति गम्यते' सा च प्रत्युपेक्षितवस्त्रस्यान्यत्राप्रत्युपेक्षिते क्षेपणेन । वेदिका षष्ठी, अस्या भेदाः पञ्च, जानूपरि हस्तौ १, जान्वधः हस्तौ २, जानुमध्ये च हस्तौ ३, हस्तमध्ये जानुद्वयं ४, एकं जानु हस्तमध्येऽपरं बहि: ५। 'सर्वत्र स्त्रीलिङ्गता रूढत्वात्' एवमेते षड् दोषाः प्रतिलेखनायां त्याज्याः ॥ तथा प्रशिथिल - मदृढमनिरायतं वस्त्रग्रहणम् । प्रलम्बो विषमग्रहणेन प्रत्युपेक्ष्यमाणवस्त्रकोणानां लम्बनम् । लोला यद् भूमौ करे वा वस्त्रस्य लोलनम् । एतेऽपि त्रयो दोषा वर्जयितव्या इति योज्यम् । एकामर्शा मध्ये लात्वा ग्रहणदेशं यावदुभयतो वस्त्रस्य यदेककालं सङ्घर्षणमाकर्षणं 'रूढित्वात् स्त्रीत्वम्' । 'अणेगरूवधुण'त्ति अनेकरूपा सङ्ख्यात्रयातिक्रमणतो वा युगपदेनकवस्त्रग्रहणतो वा धुनना प्रकम्पना अनेकरूपधुनना । तथा यत् कुरुते प्रमाणे प्रस्फोटादिसङ्ख्यालक्षणे प्रमादं यच्च शङ्किते प्रमादतः प्रमाणशङ्कायां गणनां कराङ्गुलिरेखास्पर्शादिनैकादिसङ्ख्यारूपामुपागच्छतीति गणनोपगं यथा स्यादेवं प्रस्फोटनादि कुर्यात् सोऽपि दोषः 'वर्जनक्रिया सर्वत्र पूर्वसूत्रादनुवर्त्या' एवं चोक्तदोषाभावे प्रत्युपेक्षणा निर्दोषेत्युक्तं भवतीति गाथाद्वयार्थः ॥२६-२७||
एतामेव भङ्गकद्वारेण सदोषां निर्दोषां चाह
अणूणाइरित्तपडिलेहा अविवच्चासा तहेव य । पढमं पयं पसत्थं सेसाणि उ अप्पसत्थाणि ॥ २८ ॥
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org