________________
६७०
उत्तरज्झयणाणि-२ व्याख्या-पौरुष्याः प्रथमपौरुष्याश्चतुर्थभागे 'अवशिष्यमाणे इति गम्यते' पादोनपौरुष्यामित्यर्थः । गुरून् वन्दित्वा भाजनं प्रतिलेखयेदिति सम्बन्धः ॥२२॥ अथ प्रतिलेखनाविधिमाह
मुहपोत्तिं पडिलेहित्ता पडिलेहिज्ज गोच्छयं ।
गोच्छगलइयंगुलिओ वत्थाई पडिलेहए ॥२३॥ व्याख्या-मुखवस्त्रिका प्रतिलेख्य प्रतिलेखयेत् गोच्छकं पात्रको परिवर्युपकरणम् । ततश्च ‘गोच्छगलइयंगुलिओ'त्ति 'प्राकृतत्वात्' अङ्गलिभिातो गृहीतो गोच्छको येन सोऽङ्गलिलातगोच्छको वस्त्राणि पटलकरूपाणि प्रतिलेखयेत् प्रस्तावात् प्रमार्जयेदित्यर्थः ॥२३॥ इत्थं तथावस्थितान्येव पटलकानि गोच्छकेन प्रमृज्य पुनर्यत् कुर्यात्, तदाह
उर्दू थिरं अतुरियं पुव्वं ता वत्थमेव पडिलेहे ।
तो बिइयं पप्फोडे तइयं च पुणो पमज्जिज्जा ॥२४॥ व्याख्या-उर्ध्वं कायतो वस्त्रतश्च तत्र कायत उत्कुटुकत्वेन स्थितो वस्त्रतश्च तिर्यक्प्रसारितवस्त्रः । स्थिरं दृढग्रहणेन । अत्वरितमद्रुतं यथा स्यादेवं पूर्व प्रथमं 'ता' इति तावद् वस्त्रं पटलकरूपं प्रत्युपेक्षेतैव, आरतः परतश्च निरीक्षेतैव, न तु प्रस्फोटयेत् । वस्त्राभिधानेन वर्षाकल्पादिप्रत्युपेक्षणायामप्ययमेव विधिरिति ख्यापितम् । ततश्च यदि जन्तून् पश्यति, ततो यतनयाऽन्यत्र सङ्क्रमयति, तददर्शने च 'तो' इति ततः प्रत्युपेक्षणाऽनन्तरं द्वितीयमिदं कुर्याद् यदुत शुद्धं सत् प्रस्फोटयेत् । तृतीयं च पुनरिदं यदुत प्रमृज्यात् । कोऽर्थः ? प्रत्युपेक्ष्य प्रस्फोट्य च हस्तगतान् प्राणिनः प्रमृज्यादिति ॥२४॥ कथं पुनः प्रस्फोटयेत् प्रमृज्याद् वा ? इत्याह
अणच्चावियं अवलियं अणाणुबंधिं अमोसलिं चेव ।
छप्पुरिमा नव खोडा पाणीपाणिविसोहणं ॥२५॥ व्याख्या-अनर्तितं प्रस्फोटनं प्रमार्जनं वा कुर्वतो वस्त्रं वपुर्वा यथा नर्तितं न स्यात् तथा । अवलितं यथात्मनो वस्त्रस्य च वलितमिति मोटनं न भवति । 'अणाणुबंधि'ति अननुबन्धि, अनुबन्धेन नैरन्तर्यलक्षणेन युक्तमनुबन्धि न तथा अननुबन्धि कोऽर्थः ? लक्ष्यमाणविभागं यथा भवति । 'अमोसलिं'ति 'सूत्रत्वात्' वस्त्रादेरूाधस्तिर्यग्घट्टनं मोसली तेन रहितमूर्ध्वमधो वा कुड्यादिपरामर्शवद् यथा न स्यात् तथेत्यर्थः । एवं च किम् ? इत्याह–'छप्पुरिम'त्ति षट् पूर्वाः पूर्वं क्रियमाणतया तिर्यकृत
___Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org