________________
६६९
षड्विंशं सामाचार्याख्यमध्ययनम् वृषभापेक्षं चैतत् । सामस्त्येन तु प्रथम-चरमयामजागरणमेव सर्वेषाम् । यदागमः
"सव्वेसि पढमजामे दोण्णि उ वसभाण आदिमा जामा ।
तईओ होइ गुरूणं चउत्थओ होइ सव्वेसिं" ॥१॥ शयनविधिश्चागमादवसेयः ॥१७-१८॥ रात्रिचतुर्भागज्ञानोपायमाह
जं नेइ जया रत्तिं नक्खत्तं तंमि नहचउन्भाए । संपत्ते विरमेज्जा सज्झायं पओसकालंमि ॥१९॥ तम्मेव य नक्खत्ते गयण चउब्भागसावसेसंमि ।
वेरत्तियं पि कालं पडिलेहित्ता मुणी कुज्जा ॥२०॥ अनयोर्व्याख्या-यन्नयति प्रापयति 'समाप्तिमिति गम्यम्' यदा रात्रिं नक्षत्रं तस्मिन्नभश्चतुर्भागे सम्प्राप्ते विरमेन्निवर्तेत स्वाध्यायात् प्रदोषकाले रजनीमुखे 'प्रारब्धादिति शेषः' ॥ तस्मिन्नेव नक्षत्रे 'प्रक्रमान्नीते' क्व ? इत्याह-'गयण' त्ति 'लुप्तविभक्तिकत्वात्' गगने कीदृशे ? चतुर्भागेन गन्तव्येन सावशेषं सोद्धरितं चतुर्थभागसावशेष तस्मिन्, वैरात्रिकं तृतीयमपि कालं प्रत्युपेक्ष्य प्रतिजागर्य मुनिः कुर्यात् । अपिशब्दात् स्वस्वसमये प्रादोषिकादि च कालं कुर्यात् 'करोते: ते: सर्वधात्वर्थत्वाद्' गृह्णीयात् । प्रथमादिषु नभश्चतुर्भागेषु सम्प्राप्ते नेतरि नक्षत्रे रात्रेः प्रथमादयः प्रहरा इति भाव इति गाथाद्वयार्थः ॥१९-२०॥ सामान्येन दिन-रजनिकृत्यमुक्त्वा विशेषतो दिनकृत्यमाह
पुव्विलंमि चउभागे पडिलेहित्ताण भंडगं ।
गुरुं वंदित्तु सज्झायं कुज्जा दुक्खविमोक्खणं ॥२१॥ व्याख्या-पूर्वस्मिश्चतुर्भागे प्रथमपौरुषीलक्षणे 'प्रक्रमाद् दिनस्य' प्रत्युपेक्ष्य भाण्डकं वर्षाकल्पाद्युपधिम् 'आदित्योदयसमये इति शेषः' गुरुं वन्दित्वा स्वाध्यायं कुर्याद् दुःखविमोक्षणम् ॥२१॥ तथा
पोरिसीए चउब्भाए वंदित्ताण तओ गुरुं ।
अपडिक्कमित्ता कालस्स भायणं पडिलेहए ॥२२॥ १. सर्वेषां प्रथमयामो द्वौ तु वृषभाणामाद्यौ यामौ ।।
तृतीयो भवति गुरूणां चतुर्थको भवति सर्वेषाम् ॥१॥
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org