________________
षड्विंशं सामाचार्याख्यमध्ययनम्
६६७ औत्सर्गिकं दिनकृत्यमाह
दिवसस्स चउरो भाए कुज्जा भिक्खू वियक्खणो । तओ उत्तरगुणे कुज्जा दिणभागेसु चउसु वि ॥११॥ पढमं पोरिसिं सज्झायं बीयं ज्झाणं ज्झियायई ।
तइयाए भिक्खायरियं पुणो चउत्थीइ सज्झायं ॥१२॥ अनयोर्व्याख्या-दिवसस्य चतुरो भागान् कुर्याद् 'बुद्धयेति गम्यम्' ततश्चतुर्भागकरणानन्तरमुत्तरगुणान् मूलगुणापेक्षया स्वाध्यायादीन् कुर्याच्चतुर्वपि दिनभागेषु ॥ क्व दिनभागे कमुत्तरगुणं कुर्याद् ? इत्याह-प्रथमां पौरुषी 'आश्रित्येति शेषः' स्वाध्यायं वाचनादिकं सूत्रपौरुषीत्वादस्याः 'कुर्यादिति क्रिया प्राक्तनाऽत्र योज्या' । द्वितीयां 'अर्थात् पौरुषीं' ध्यानं 'ज्झियायइ'त्ति ध्यायेत्, अर्थपौरुषीत्वादस्या ध्यानं चेहार्थविषय एव मनोव्यापारणं ध्यायेदिति च 'अनेकार्थत्वाद् धातूनां' कुर्यादित्यर्थः । इह च प्रतिलेखनाकालोऽल्पत्वान्न विवक्षितः 'उभयत्रापि 'कालाध्वनोरत्यन्तसंयोगे' इत्यनेन द्वितीया' । तृतीयायां भिक्षाचर्याम् 'उपलक्षणाद् भोजन-बहिर्गमनादि' । चतुर्थ्यां स्वाध्यायम् 'उपलक्षणात् प्रतिलेखना स्थण्डिलप्रत्युपेक्षादि' । कालापेक्षयैव सकलानुष्ठानस्य सफलत्वादिति गाथाद्वयार्थः ॥११-१२॥ प्रथमपौरुषीपरिज्ञानार्थमाह
आसाढे मासे दुपया पोसे मासे चउप्पया । चित्तासोएसु मासेसु तिपया हवइ पोरिसी ॥१३॥ अंगुलं सत्तरत्तेणं पक्खेणं य दुअंगुलं ।
वड्डए हायए वा वि मासेणं चउरंगुलं ॥१४॥ अनयोाख्या-आषाढे मासे पौरुषी प्रहरमानं द्विपदा भवति । पौषे मासे चतुष्पदप्रमाणा छाया भवति तदा पौरुषी । चैत्रमासेऽथवाश्विनमासे त्रिपदा पौरुषी भवति ॥ सप्तरात्रेण 'दिनाविनाभावित्वाद् रात्रीणां' सप्ताहोरात्रेण 'सार्धेनेति शेषः' अङ्गुलं, पक्षेण च व्यङ्गुलं, मासेन च चतुरङ्गलं वर्धते दक्षिणायने, हीयते चोत्तरायणे । किञ्च यदा केषुचिन्मासेषु चतुर्दशदिनैः पक्षः स्यात् तदा सप्तरात्रेणाप्यङ्गलवृद्धि हान्या न कश्चिद् विरोधः ॥१३-१४॥ दिनचतुर्दशकपक्षसम्भवमाह
आसाढबहुलपक्खे भद्दवए कत्तिए य पोसे य । फग्गुण-वइसाहेसु य नायव्वा ओमरत्ताओ ॥१५॥
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org