________________
षड्विंशं सामाचार्याख्यमध्ययनम्
निसीहियं ।
एतामेव प्रत्यवयवं विषयप्रदर्शनपूर्वकं कर्तव्यतया वक्तुमाहगमणे आवस्सियं कुज्जा ठाणे कुज्जा आपुच्छणा सयं करणे परकरणे पडिपुच्छणा ॥५॥ छंदणा दव्वजाएणं इच्छकारो य सारणे । मिच्छाकारो य निंदाए तहक्कारो य पडिस्सुए ॥ ६ ॥ अब्भुवाणं गुरुपूया अच्छणे उवसंपया । एवं दुपंच संजुत्ता सामायारी पवेइया ॥ ७ ॥
आसां व्याख्या-गमने तथाविधालम्बनत उपाश्रयात् गुर्ववग्रहाद् वा बहिर्निःसरणे, आवश्यकेष्ववश्यकर्तव्येषु भवावश्यिकी तां कुर्यात् । ततो निर्गत्य स्थाने पुनरुपाश्रयादौ ' प्रविशन्निति शेष: ' कुर्यात् पापानुष्ठाननिषेधात्मिकां नैषेधिकीमेतां कृत्वैव प्रवेष्टव्यमिति । तत्र च तिष्ठतो भिक्षाटनादिकार्योत्पत्तावहमिदं कुर्यां ? नवेत्येवं गुर्वादेः 'आङिति' सर्वकृत्याभिव्याप्त्या प्रच्छना आपृच्छना स्वयमित्यात्मनः करणे कार्यस्येति । गुर्वादिष्टेन परस्यान्यस्य कार्यकरणे पुनः प्रवृत्तिकाले गुर्वादेः प्रच्छना प्रतिप्रच्छना, स हि कदाचित् कार्यान्तरमप्यादिशेदन्यतो वा कार्यं सिद्धं स्यादिति प्रतिपृच्छ्यते, किञ्चोच्छ्वास - निश्वासौ मुक्त्वा स्व-परसम्बन्धिषु कार्येषु पूर्वं प्रच्छना, प्रवृत्तिकाले पुनः प्रच्छनेति प्रतिप्रच्छना || छन्दना शेषयतिनिमन्त्रणात्मिका निस्तितीर्षुणा कार्या । यदागमः
" साहवो तो चियत्तेणं निमंतिज्ज जहक्कमं ।
जड़ मे अणुग्गहं कुज्जा साहू हुज्जामि तारिओ " ॥१॥ इति
केन ? इत्याह- द्रव्यजातेनाशनादिना 'प्राग्गृहीतेति गम्यम्' । तस्यामपि प्रयोज्य इच्छाकार इच्छा स्वाभिप्रायस्तया करणं कार्यस्येच्छाकारः, सारणे स्वपरयोरौचित्येन कार्यप्रवर्तने, तत्र स्वसारणे यथेच्छाकारेण मद्भिक्षाटितलब्धमन्नं संविभजत भवच्चिकीर्षितं कार्यमहं करोमीत्यादि, परसारणे मम पात्रलेपादीच्छाकारेण कुरुत, न बलाभियोगादिनेति मिथ्याकारो मिथ्येदमिति प्रतिपत्तिः, स चात्मनो निन्दायां वितथाचरणे हि धिगिदं मिथ्या मया कृतमिति । अस्मिन् कृतेऽपि बृहत्तरदोषसम्भवे गुर्वादिष्टालोचनायां तथाकरणं तथाकार इदमित्थमेवेत्यभ्युपगमः क्व ? इत्याह- प्रतिश्रवणे गुरौ आलोचनं वाचनादिकं वा यच्छत्येवमेतदित्यभ्युपगम इति ॥ अभीत्याभिमुख्येनोत्थानमुद्यमनमभ्युत्थानं तच्च गुरु
१. साधूंस्ततोऽपि यत्नेन निमन्त्रयेद् यथाक्रमम् । यदि मेऽनुग्रहं कुर्यात् साधुर्भवामि तारितः ॥१॥
६६५
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org