________________
षड्विंशं सामाचार्याख्यमध्ययनम्
प्रागध्ययने ब्रह्मगुणा उक्तास्तद्वांश्च यतिरेव । तेन चावश्यं सामाचारी कार्येति तदभिधायकं षड्विंशमध्ययनमारभ्यते । तस्यादिमां गाथामाह
सामायारिं पव्वक्खामि सव्वदुक्खविमोक्खाणि । जं चरित्ता ण निग्गंथा तिन्ना संसारसागरं ॥ १ ॥
व्याख्या - सामाचारीं यतीतिकर्तव्यतारूपां प्रवक्ष्यामि खयिष्यामि । किं लक्षणां ? सर्वदुःखविमोक्षिणी शारीर-मानसानां सर्वदुःखानां विशेषेण मोचनीयां दूरीकरणयोग्यामत एव यां सामाचारीं चरित्वासेव्य 'णमित्यलङ्कारे' निर्ग्रन्था बाह्याभ्यन्तरभेदभिन्नग्रन्थान् छेत्तारः साधवः संसारसागरं भवसमुद्रं तीर्णा मुक्ति प्राप्ता इत्यर्थः 'उपलक्षणत्वात् तरन्ति तरिष्यन्ति चेति' ॥१॥
पढमा आवस्सिया नामं बिइया य निसीहिया । आपुच्छणा य तइया चउत्थी पडिपुच्छणा ॥२॥ पंचमा छंदणा नाम इच्छाकारो य छट्ठओ । सत्तमो मिच्छकारो य तहक्कारो य अट्टमो ॥ ३ ॥
अब्भुवाणं नवमं दसमा उवसंपया ।
एसा दसंगा साहूणं सामायारी पवेइया ॥४॥
आसां व्याख्या - एषाऽनन्तरोक्ता दशाङ्गावश्यिक्यादिदशावयवा दशधा सा साधूनां सामाचारी प्रकर्षेण वेदिता प्रवेदिता कथितार्हद्भिस्तीर्थंकरैर्गणधरैर्वा । तत्र प्रथमावश्यकी, ततो नैषेधिकी, आप्रच्छना, प्रतिप्रच्छना, छन्दना, इच्छाकारः, मिथ्याकारः, तथाकारः, अभ्युत्थानम्, उपसम्पच्चेति शेषं स्पष्टमिति गाथात्रयार्थः ॥२३-४॥
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org