________________
पञ्चविंशं यज्ञीयाध्ययनम् गम्यते' । अभोगी शब्दादिभोगनिर्मुक्तौ नोपलिप्यते कर्मणोपदिह्यते । अत एव भोगी भ्रमति संसारे । अभोगी विप्रमुच्यते मुक्ति प्राप्नोतीत्यर्थः ॥४०॥ एतदेव दृष्टान्तद्वारेणाह
उल्लो सुक्को य दो छूढा गोलया मट्टियामया ।
दो वि आवडिया कुड्डे जो उल्लो सो त्थ लग्गई ॥४१॥ व्याख्या-'उल्ल'त्ति आर्द्रः, शुष्कश्चानार्दो द्वावुभौ 'छुढ'त्ति क्षिप्तौ गोलको पिण्डौ मृत्तिकामयौ द्वाप्यापतितौ प्राप्तौ कुड्ये भित्तौ । ततः किम् ? इत्याह आह-य आर्द्रः सोऽत्रेत्यनयोर्द्वयोर्मध्ये लगति श्लिष्यति 'प्रक्रमात् कुड्ये' ॥४१॥ दाटन्तिकयोजनामाह
एवं लग्गति दुम्मेहा जे नरा कामलालसा ।
विरत्ता उ न लग्गंति जहा से सुक्कगोलए ॥४२॥ व्याख्या-एवं लगन्ति 'प्रस्तावात् कर्मणा' दुर्मेधसो दुर्बुद्धयो ये नराः कामलालसा विषयलम्पटाः, विरक्तास्तु पुनः कामभोगपराङ्मुखा न लगन्ति न कर्मणा श्लिष्यन्ते यथा शुष्को गोलक इति ॥४२॥ इत्थमुक्तो यदसौ कृतवांस्तदाह
एवं सो विजयघोसो जयघोसस्स अंतिए ।।
अणगारस्स निक्खंतो धम्मं सोच्चा अणुत्तरं ॥४३॥ व्याख्या-एवं स विजयघोषो ब्राह्मणो जयघोषस्यान्तिके समीपे अनगारस्य यतेनिष्क्रान्तः प्रव्रजितो धर्ममहिंसादिरूपं श्रुत्वा अनुत्तरं प्रधानम् ॥४३॥ अध्ययनार्थोपसंहारेणानयोनिष्क्रमणफलमाह
खवित्ता पुव्वकम्माइं संजमेण तवेण य ।
जयघोस-विजयघोसा सिद्धि पत्ता अणुत्तरं ॥४४॥ त्ति बेमि॥ व्याख्या-क्षपयित्वा पूर्वकर्माणि संयमेन तपसा च जयघोष-विजयघोषौ सिद्धि प्राप्तावनुत्तरामिति ब्रवीमीति पूर्ववत् ॥४४॥ इति श्रीकमलसंयमोपाध्यायविरचितायां सर्वार्थसिद्धौ श्रीउत्तराध्ययनटीकायां
पञ्चविंशं यज्ञीयमध्ययनं समाप्तम् ॥२५॥
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org