SearchBrowseAboutContactDonate
Page Preview
Page 238
Loading...
Download File
Download File
Page Text
________________ ६६२ उत्तरज्झयणाणि-२ किं कृतवान् ? इत्याह तुढे य विजयघोसे इणमुदाहु कयंजली । माहणत्तं जहाभूयं सुटु मे उवदंसियं ॥३६॥ व्याख्या-तुष्टः परितोषवान् 'चः पूरणे' विजयघोष इदं वक्ष्यमाणं 'उदाहु' त्ति उदाह ब्रूते कृताञ्जलिः । तदेवाह-ब्राह्मणत्वं यथाभूतं यथाऽवस्थितं सुष्ठ शोभनं यथा स्यान्मे ममोपदर्शितं प्रकटितम् ॥३६।। किञ्च तुब्भे जईया जन्नाणं तुब्भे वेयविऊ विऊ । जोइसंगविऊ तुब्भे तुब्भे धम्माण पारगा ॥३७॥ व्याख्या-यूयं 'जईय'त्ति यष्टारो यज्ञानाम् । यूयं वेदविदो वेदज्ञाः 'विऊ' त्ति विद्वांसः । ज्योतिषाविदो यूयम् । यूयं धर्माणां सदाचाराणां पारगाः । भवतामेव निर्वाहितसदाचारत्वादिति भावः ॥३७॥ तथा तुब्भे समत्था उद्धत्तुं परं अप्पाणमेव य । तमणुग्गहं करेह म्हं भिक्खेणं भिक्खुउत्तमा ! ॥३८॥ व्याख्या-यूयं समर्था उद्धर्तुं परमात्मानमेव च युष्माकमेव तात्त्विकगुणोपेतत्वात्। 'तं'ति तस्मादनुग्रहमुपकारं कुरुतास्माकं 'भिक्खेणं'ति भिक्षाग्रहणेन हे भिक्षुत्तम यतिप्रधान ! ॥३८॥ मुनिराह न कज्जं मज्झ भिक्खेणं खिप्पं निक्खमसू दिया ! । मा भमिहिसि भयावत्ते घोरे संसारसागरे ॥३९॥ व्याख्या-न कार्यं न प्रयोजनं मम भिक्षया, किन्तु क्षिप्रं शीघ्रं निष्क्राम प्रव्रज द्विज ! भवन्निष्क्रमणेनैव मम कार्यमिति भावः । किम् ? इत्यत आह-मा भ्रमिष्यसि भयानीहलोकभयादीन्यावर्ता यस्मिन् स तथा तत्र तथाविधे घोरे संसारसमुद्रे ॥३९।। उवलेवो होइ भोगेसु अभोगी नोवलिप्पई । भोगी भमइ संसारे अभोगी विप्पमुच्चई ॥४०॥ व्याख्या-उपलेपः कर्मोपचयरूपो भवति भोगेषु शब्दादिषु 'भुज्यमानेष्विति ___Jain Education International 2010_02 For Private & Personal Use Only www.jainelibrary.org
SR No.002566
Book TitleAgam 43 Mool 04 Uttaradhyayan Sutra Part 02
Original Sutra AuthorN/A
AuthorKamalsanyamvijay, Vajrasenvijay
PublisherBhadrankar Prakashan
Publication Year2009
Total Pages516
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_uttaradhyayan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy