________________
पञ्चविंशं यज्ञीयाध्ययनम्
६६१
तथा
कम्मुणा बंभणो होइ कम्मुणा होइ खत्तिओ ।
वइसो कम्मुणा होइ सुद्दो हवइ कम्मुणा ॥३२॥ व्याख्या कर्मणा क्रियया भवति ब्राह्मणः । उक्तं हि
"क्षमा दानं दमो ध्यानं सत्यं शौचं धृतिघृणा ।
ज्ञान-विज्ञानमास्तिक्यमेतद् ब्राह्मणलक्षणम्" ॥१॥ कर्मणा क्षतत्राणलक्षणेन क्षत्रियः । वैश्यः कर्मणा कृषि–पशुपाल्यादिना भवति । शूद्रो भवति कर्मणा शौचनादिहेतुप्रैषादिसम्पादनरूपेण । कर्माभावे हि ब्राह्मणव्यपदेशोऽसद्रूप एव । ब्राह्मणप्रक्रमेऽपि शेषाभिधानं व्याप्तिदर्शनार्थम् ॥३२॥ सर्वज्ञोपज्ञतामाह
एए पाउकरे बुद्धे जेहिं होइ सिणायओ ।
सव्वकम्मविणिम्मुक्कं तं वयं बूम माहणं ॥३३॥ _ व्याख्या-एताननन्तरोक्तानहिंसाद्यर्थान् प्रादुरकार्षीत् प्रकटितवान् बुद्धोऽवगततत्त्वो यैर्भवति स्नातकः केवली सर्वकर्मविनिर्मुक्तः प्रत्यासन्नमुक्तितया 'सुब्ब्यत्ययादत्र प्रथमाऽर्थे द्वितीया' तत्त्वतः स्नातकं तमुक्तगुणं वा वयं ब्रूमो ब्राह्मणम् ॥३३॥ उपसंहर्तुमाह
एवं गुणसमाउत्ता जे भवंति दिउत्तमा ।
ते समत्था उ उद्धत्तुं परं अप्पाणमेव य ॥३४॥ व्याख्या-एवं पूर्वोक्तप्रकारेण गुणैरहिंसाऽऽदिभिः समायुक्ताः सहिता ये भवन्ति द्विजोत्तमास्ते समर्था उद्धर्तुं 'भवादिति गम्यम्' अर्थान्मुक्तिपदे व्यवस्थापयितुं परमन्यमात्मानमेव चेति ॥३४॥ इत्युक्त्वा स्थिते मुनौ
एवं तु संसए छिन्ने विजयघोसे य माहणे ।
समुदाय तओ तं तु जयधोसं महामुणिं ॥३५॥ व्याख्या एवं पूर्वोक्तप्रकारेण 'तुर्वाक्यान्तरोपन्यासे' संशये छिन्नेऽपनीते विजयघोषो ब्राह्मणः ‘समुदाय'त्ति 'आर्षत्वात्' समादाय सम्यग् गृहीत्वाबधार्येत्यर्थः । 'तओ' त्ति ततः संशयच्छेदानन्तरं 'तं तु' त्ति तं जयघोषं महामुनि एष मम भ्राता एष एव महामुनिरित्यवधार्येत्यर्थः ॥३५॥
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org