________________
उत्तरज्झयणाणि-२ वेदाध्ययन-यागादिकृतः पात्रत्व-ब्राह्मणत्वनिषेधमाह
पसुबंधा सव्ववेया जटुं च पावकम्मुणा ।
न तं तायंति दुस्सीलं कम्माणि बलवंतिह ॥२९॥ व्याख्या-पशूनां छागानां बन्धो विनाशाय नियमनं यैर्हेतुभिस्तेऽमी पशुबन्धाः 'श्वेतं छागमालभेत वायव्यां भूतिकामः' इत्यादिवाक्योपलक्षिताः, न तु ये 'आत्मा रे ज्ञातव्यो मन्तव्यो निदिध्यासितव्यः' इत्यादिवाक्योपलक्षिताः । सर्ववेदा ऋग्वेदादयः ‘जलु' त्ति इष्टं यजनं 'चः समुच्चये' पापकर्मणा पापहेतुभूतपशुबन्धाद्यनुष्ठानेन । न नैव तं वेदाध्यातारं यष्टारं वा त्रायन्ते रक्षन्ति 'भवादिति गम्यम्' । किं विशिष्टं ? दुःशीलं ताभ्यामेव हिंसादिप्रवर्तनेन दुराचारं यतः कर्माणि बलवन्ति दुर्गतिनयनं प्रति समर्थानीह भवदागमाभिहिते वेदाध्ययने यजने च 'भवन्तीति गम्यते' पशुबधप्रवर्तकत्वेन तयोः कर्मपोषकत्वादिति भावः । ततो नैतद्योगात् पात्रभूतो ब्राह्मणः किन्तु पूर्वोक्तगुण एवेति भावः ॥२९॥ किञ्च
न वि मुंडिएण समणो न ॐकारेण बंभणो ।
न मुणी रन्नवासेणं कुसचीरेण न तावसो ॥३०॥ व्याख्या-नापि मुण्डितेन स्वकेशापनयनेन समं मनोऽस्येति निरुक्त्या श्रमणो निर्ग्रन्थः । न चोङ्कारेण 'उपलक्षणत्वात् 'ॐ भूर्भुवस्वः' इत्याधुच्चारणरूपेण ब्राह्मणः । तथा न मुनिररण्यवासेन । कुशो दर्भविशेषस्तन्मयं चीवरं कुशचीवरं 'वल्कलोपलक्षणमेतत्' तेन न तापसो ‘भवतीति सर्वत्र योज्यम्' ॥३०॥ तहि ते कथं भवन्ति ? इत्याह
समयाए समणो होइ बंभचेरेण बंभणो ।
नाणेण य मुणी होइ तवेण होइ तावसो ॥३१॥ व्याख्या-समतया राग-द्वेषाभावरूपया श्रमणो भवति । ब्रह्मणश्चरणं ब्रह्मचर्य ब्रह्म च द्विधा । यदुक्तम्
"द्वे ब्रह्मणी वेदितव्ये शब्दब्रह्म परं च यत् ।
शब्दब्रह्मणि निष्णातः परं ब्रह्माधिगच्छति" ॥१॥ इह च प्रागुक्तहिंसाविरत्यादिरूपं परं ब्रह्म गृह्यते, तेन ब्राह्मणः । ज्ञानेन हितावबोधरूपेण मुनिः । तपसा बाह्याभ्यन्तरभेदभिन्नेन भवति तापसः ॥३१॥
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org