________________
पञ्चविंशं यज्ञीयाध्ययनम्
६५९
तथा
दिव्व-माणुस्स-तेरिच्छं जो न सेवइ मेहुणं ।
मणसा काय-वक्केणं तं वयं बूम माहणं ॥२५॥ व्याख्या-दिव्यविषयत्वाद् दिव्यं, मानुषं, तैरश्चम् ‘एषां द्वन्द्वे' दिव्य-मानुष-तैरश्चं यो न सेवेत मैथुनं मनः-काय-वाक्यैस्तं वयं ब्रूमो ब्राह्मणम् । तथोक्तम्
"देव-मानुष-तिर्यक्षु मैथुनं वर्जयेद् यदा।।
कामरागविरक्तश्च ब्रह्म सम्पद्यते तदा" ॥१॥॥२५॥ अपि च
जहा पोमं जले जायं नोवलिप्पइ वारिणा ।
एवं अलित्तो कामेहिं तं वयं बूम माहणं ॥२६॥ व्याख्या-यथा पद्मं कमलं जले जातमुत्पन्नं तत्परित्यागेनोपरि व्यवस्थानतोऽपि नोपलिप्यते न श्लिष्यति वारिणा जलेन । एवं पद्मवदलिप्तोऽश्लिष्टः कामैरेव शब्दादिभिस्तन्मध्योत्पन्नोऽपि तैरेव वृद्धि नीतोऽपि यस्तं वयं ब्रूमो ब्राह्मणम् । तथा च तत्रोक्तम्
"यदा सर्वं परित्यज्य निःसङ्गो निष्परिग्रहः ।
निश्चिन्तश्च चरेद् धर्मं ब्रह्म सम्पद्यते तदा" ॥१॥॥२६॥ इत्थं मूलगुणयोगात् तात्त्विकं ब्राह्मणमुक्त्वोत्तरुगुणयोगतस्तमाह
अलोलुयं मुहाजीवी अणगारं अकिंचणं ।
असंसत्तं गिहत्थेसु तं वयं बूम माहणं ॥२७॥ व्याख्या अलोलुपमाहारादिष्वलम्पटं 'सुब्ब्यत्ययात्' मुधाजीविनमज्ञातोञ्छवृत्तिमनगारमकिञ्चनमसंसक्तमसम्बद्धं कैः ? गृहस्थैः 'तृतीयाऽर्थे सप्तमी' तमेवंविधमपि वयं ब्रूमो ब्राह्मणम् ॥२७॥ क्वचिदत्र पाठान्तरम्
जहित्ता पुव्वसंजोगं नाइसंगे य बंधवे ।
जो न सज्जइ एएसु तं वयं बूम माहणं ॥२८॥ व्याख्या-त्यक्त्वा पूर्वसयोगं मात्रादिसम्बन्धं ज्ञातिसंयोगान् स्वस्रादिसम्बन्धांश्च तथा बान्धवांश्च यो न सजति नाभिष्वङ्गं करोति यस्तमित्यादि स्पष्टम् । अनेन चातिनिःस्पृहतोक्तोत्तरगुणा अप्याक्षिप्ताः ॥२८॥
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org