SearchBrowseAboutContactDonate
Page Preview
Page 234
Loading...
Download File
Download File
Page Text
________________ ६५८ उत्तरज्झयणाणि-२ निर्मातमलमित्यनेन चाऽन्तरस्ततो जातरूपवद् बाह्याभ्यन्तरगुणान्वितोऽत एव राग-द्वेषभयातीतश्च यस्तं वयं ब्रूमो ब्राह्मणम् ॥२१॥ किञ्च तसपाणे वियाणित्ता संगहेण य थावरे । जो न हिंसइ तिविहेणं तं वयं बूम माहणं ॥२२॥ व्याख्या-त्रसप्राणिनो विज्ञाय सङ्ग्रहेण सझेपेण 'चशब्दाद् विस्तरेण च' तथा स्थावरान् यो न हिनस्ति न व्यापादयति त्रिविधेन 'मनो-वाक्-काययोगेनेति गम्यम्' तं वयं ब्रूमो ब्राह्मणम् । यदुक्तमारण्यके "यदा न कुरुते पापं सर्वभूतेषु दारुणम् । कर्मणा मनसा वाचा ब्रह्म सम्पद्यते तदा" ॥१॥॥२२॥ तथा कोहा वा जइ वा हासा लोभा वा जइ वा भया । मुसं न वयई जो उ तं वयं बूम माहणं ॥२३॥ व्याख्या-क्रोधादिभ्यो मृषा न वदति यस्तं वयं ब्रूमो ब्राह्मणमिति । इह च मानस्य क्रोधो मायायाश्च लोभ उपलक्षणं प्रायस्तत्सहचरितत्वात् तयोः । इदमप्यारण्यकेऽभिहितम् "यदा सर्वानृतत्यक्तं मिथ्याभाषाविवर्जितम् । अनवद्यं च भाषेत ब्रह्म सम्पद्यते तदा" ॥१॥॥२३॥ तथा चित्तमंतमचित्तं वा अप्पं वा जइ वा बहुं । न गिण्हइ अदत्तं जो तं वयं बूम माहणं ॥२४॥ व्याख्या-चित्तवद् द्विपदादि, अचित्तं वा सुवर्णादि, अल्पं वा सङ्ख्यया प्रमाणेन च स्तोकं यदि वा बहु ताभ्यामेव प्रचुरं न गृह्णात्यऽदत्तं यस्तं वयं ब्रूमो ब्राह्मणम् । इदमप्युक्तमारण्यके "परद्रव्यं यदा दृष्ट्वा आकुले ह्यथवा रहे । धर्मकामो न गृह्णाति ब्रह्म सम्पद्यते तदा" ॥१॥॥२४॥ Jain Education International 2010_02 For Private & Personal Use Only www.jainelibrary.org
SR No.002566
Book TitleAgam 43 Mool 04 Uttaradhyayan Sutra Part 02
Original Sutra AuthorN/A
AuthorKamalsanyamvijay, Vajrasenvijay
PublisherBhadrankar Prakashan
Publication Year2009
Total Pages516
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_uttaradhyayan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy