________________
पञ्चविंशं यज्ञीयाध्ययनम्
६५७ व्याख्या-अज्ञा न तत्त्ववेदिनः के ते? यज्ञवादिनो ये भवतः पात्रत्वेनाभिमताः । कासाम् ? इत्याह 'विज्जामाहणसंपय' त्ति 'सूत्रत्वात् सुब्ब्यत्ययः' विद्याब्राह्मणसम्पदा विद्याश्चारण्यकब्रह्माण्डपुराणाख्यधर्मशास्त्रात्मिकास्ता एव ब्राह्मणसम्पदस्तासां, तात्त्विकब्राह्मणानां हि निष्किञ्चनत्वेन विद्या एव सम्पदस्तद्विज्ञत्वे च कथमेते बृहदारण्यकाद्युक्तदशविधधर्मवेदिनो द्रव्ययागमेवं कुर्युः । तथा गूढा बहिः संवृतिमन्तः स्वाध्यायतपसा वेदाध्ययनोपवासादिना भस्मच्छन्ना अग्नय इव बहिः शान्ता इवाभान्त्यन्तश्च कषायवत्तया ज्वलन्ति । एवं च न तत्त्वतो भवदभिमतं ब्राह्मण्यं तदभावाच्चात्मपरोद्धरणेन पात्रत्वं दूरापास्तमेवेति भावः ॥१८॥ तर्हि कस्य ब्राह्मणस्य पात्रत्वम् ? इत्याह
जो लोए बंभणो वुत्तो अग्गी वा महिओ जहा ।
सया कुसलसंदिलु तं वयं बूम माहणं ॥१९॥ व्याख्या-यो लोके ब्राह्मण उक्तः 'कुशलैरिति गम्यते' 'वेति पूरणे' 'यथेत्यौपम्ये भिन्नक्रमश्च' । ततो यथाऽग्निः 'यत्-तदोनित्याभिसम्बन्धात्' तथा महितः सन्, सदा कुशलैस्तत्त्वाभिज्ञैः सन्दिष्टः कथितः कुशलसन्दिष्टस्तं, तं वयं ब्रूम ब्राह्मणम्। यदेव हि लोके विज्ञोपदिष्टं तदेव वस्त्वङ्गीकारार्हमिति भावः ॥१९|| कुशलसन्दिष्टस्वरूपब्राह्मणमाह
जो न सज्जइ आगंतुं पव्वयंतो न सोयई ।
रमए अज्जवयणमि तं वयं बूम माहणं ॥२०॥ व्याख्या-यो न स्वजते नाभिष्वङ्गं करोति आगन्तुं प्राप्तुं 'स्वजनादिस्थानमिति गम्यते' । आगतो वा तत एव प्रव्रजन् स्थानान्तरं गच्छन्न शोचते यथा-कथमहममुना विना भविष्यामि ? अत एव रमते आर्याणामर्हतां वचनमागमस्तस्मिन्। को भावः ? सर्वत्र नि:स्पृहत्वेनागमोक्तानुष्ठान एव रतिमान् भवति तं वयं ब्रूमो ब्राह्मणम् ॥२०॥
तथा
जायरूवं जहामटुं निद्धंतमलपावगं ।
राग-द्दोस-भयाईयं तं वयं बूम माहणं ॥२१॥ व्याख्या-जातरूपं स्वर्णं 'जहामटुं' ति 'यथेत्यौपम्ये' आमृष्टं तेजः प्रकर्षारोपणाय मनःशैलादिना परामृष्टं, अनेनाऽस्य बाह्यो गुण उक्तः । 'निद्धत' त्ति 'सूत्रत्वात् पदव्यत्यये' पावकेन वह्निना निर्मातं दग्धं मलं किट्टमस्येति पावक
___Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org