________________
६५६
उत्तरज्झयणाणि-२ व्याख्या-अग्निहोत्रमग्निकारिका सा चेह
"कर्मेन्धनं समाश्रित्य दृढा सद्भावनाहुतिः ।
धर्मध्यानाग्निना कार्या दीक्षितेनाग्निकारिका" ॥१॥ इत्यादिरूपा परिगृह्यते । तदेव मुखं प्रधानं येषां तेऽग्निहोत्रमुखा वेदाः । वेदानां हि दध्यादेवि नवनीतमारण्यकमेव प्रधानम् । उक्तं च
"नवनीतं यथा दध्नश्चन्दनं मलयादिव ।
औषधिभ्योऽमृतं यद्वद् वेदेष्वारण्यकं तथा" ॥१॥ तत्र च
"सत्यं तपश्च सन्तोषः क्षमा चारित्रमार्जवम् ।
श्रद्धा धृतिरहिंसा च संवरश्च तथा परः" ॥२॥ इति दशप्रकारधर्मोऽग्निहोत्रं, तथा यज्ञः प्रस्तावाद् भावयज्ञः संयमरूपस्तदर्थी 'वेयस' त्ति वेदेन हेतुना अस्यन्ति क्षिपन्त्यऽशुभकर्माणीति निरुक्त्या वेदसो भावयागस्तेषां मुखमुपायस्ते हि सत्येव यज्ञाथिनि प्रवर्तन्ते, भावयागानां भावयागार्थी मुनिरेव मुखमित्यर्थः । नक्षत्राणां मुखं प्रधानं चन्द्रस्तस्यैव तदधिपतित्वात् । धर्माणां काश्यपो भगवान् ऋषभदेवो मुखमुपायस्तस्यैवादितस्तत्प्ररूपकत्वात्, तथा चारण्यकम्-"ऋषभ एव भगवान् ब्रह्मा तेन भगवता ब्रह्मणा स्वयमेवाऽऽचीर्णानि प्रमीतानि ब्रह्माणि" इत्यादि । किञ्च सकलपुराणमुख्यं ब्रह्माण्डपुराणं तत्राप्युक्तम्-"इह हि इक्ष्वाकुकुलवंशोद्भवेन नाभिसुतेन मरुदेव्या नन्दनेन महादेवेन ऋषभेण दशप्रकारो धर्मः स्वयमेव चीर्णः केवलज्ञानलम्भाच्च निर्ग्रन्थादिमहर्षीणां प्रणीतस्त्रेतायामादौ" इत्याह ॥१६॥ काश्यपस्यैव महात्म्यख्यापनतो धर्ममुखत्वमाह
जहा चंदं गहाईया चिटुंती पंजलीउडा ।
वंदमाणा नमसंता उत्तमं मणहारिणो ॥१७॥ व्याख्या-यथा चन्द्र ग्रहादिकाः 'आदिशब्दान्नक्षत्रादिग्रहः' प्राञ्जलयो योजितकरसम्पुटा वन्दमानाः स्तुवन्तो नमस्यन्तो नमस्कुर्वन्त उत्तम प्रधानं 'मणहारिणो' त्ति मनोहारिणो विनीततया प्रभुचित्ताक्षेपकारिणस्तिष्ठन्तीति सम्बन्धः 'तथैनमपि भगवन्तं देवेन्द्रप्रमुखा इत्युपस्कारः' ॥१७॥ चतुःप्रश्नोत्तरमभिधाय पञ्चममाह
अजाणगा जन्नवाई विज्जामाहणसंपया । गूढा सज्झायतवसा भासच्छन्ना इवग्गिणो ॥१८॥
___ Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org