SearchBrowseAboutContactDonate
Page Preview
Page 231
Loading...
Download File
Download File
Page Text
________________ पञ्चविंशं यज्ञीयाध्ययनम् ६५५ ___ व्याख्या-अपेरेवार्थत्वान्नैव जानासि वेदानां मुखमिव मुखं यत् तेषु प्रधानम् । नापि यज्ञानां मुखमुपायः । नक्षत्राणां मुखं प्रधानं यच्च धर्माणां मुखमुपायस्तदनेन तस्य वेदाधनभिज्ञत्वमुक्तम् ॥११॥ पात्रानभिज्ञत्वमाह जे समत्था समुद्धत्तुं परं अप्पाणमेव य । न ते तुमं वियाणासि अह जाणसि तो भण ॥१२॥ व्याख्या-ये समर्थाः समुद्धर्तुं परमात्मानमेव च न तांस्त्वं विशेषेण जानासि । अथ जानासि ततो भणेत्याक्षेप उक्तः ॥१२॥ एवमाक्षिप्ते मुनौ स किं कृतवान् ? इत्याह तस्सक्खेवपमोक्खं च अचयंतो तहिं दिओ। सपरिसो पंजलिहोउं पुच्छई तं महामुणिं ॥१३॥ व्याख्या-तस्य जयघोषमुनेराक्षेपः प्रश्नस्तस्य प्रमोक्षः प्रत्युत्तरं 'चः पूरणे' 'अचयंतो' त्ति अशक्नुवन् ‘दातुमिति गम्यते' तस्मिन् यज्ञे द्विजः सपरिषत् सभान्वितः प्राञ्जलिॉजितकरसम्पुटो भूत्वा पृच्छति तं महामुनिम् ॥१३॥ कि पृष्टवान् ? इत्याह वेयाणं च मुहं बूहि बूहि जन्नाण जं मुहं । नक्खत्ताण मुहं बूहि बूहि धम्माण वा मुहं ॥१४॥ व्याख्या-वेदानां च मुखमङ्गं ब्रूहि व्यक्तमभिधेहि, ब्रूहि कथय यज्ञानां यन्मुखं, नक्षत्राणां मुखं ब्रूहि, ब्रूहि धर्माणां वा मुखं । पुनः पुनर्ब्रहीति कथनमत्यादरख्यापनार्थम् ॥१४॥ जे समत्था समुद्धत्तुं परमप्पाणमेव य । एयं मे संसयं सव्वं साहू ! कहसु पुच्छिओ ॥१५॥ व्याख्या-गतार्था नवरमेतदुक्तरूपं मे मम संशयं वेदमुखादि हे साधो ! कथय पृष्टः सन् ॥१५॥ एवं पृष्टो मुनिराह अग्गिहोत्तमुहा वेया जन्नट्ठी वेयसां मुहं । नक्खत्ताण मुहं चंदो धम्माणं कासवो मुहं ॥१६॥ Jain Education International 2010_02 For Private & Personal Use Only www.jainelibrary.org
SR No.002566
Book TitleAgam 43 Mool 04 Uttaradhyayan Sutra Part 02
Original Sutra AuthorN/A
AuthorKamalsanyamvijay, Vajrasenvijay
PublisherBhadrankar Prakashan
Publication Year2009
Total Pages516
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_uttaradhyayan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy