________________
६५४
उत्तरज्झयणाणि-२ किम् ? इत्यत आह
जे य वेयविऊ विप्पा जन्नट्ठा य जे दिया ।
जोइसंगविऊ जे य जे य धम्माण पारगा ॥७॥ व्याख्या-ये च वेदविदो विप्रा जातितः, यज्ञार्थाश्च यज्ञप्रयोजना ये तत्र व्याप्रियन्ते ये द्विजाः संस्कारतो द्विजन्मानः । ज्योतिषं ज्योतिःशास्त्रमङ्गानि शिक्षादीनि तानि विदन्तीति ज्योतिषाविदो ये, ज्योतिषोऽप्यङ्गत्वे यत् पृथगुपादानं तद् विप्रेषु तत्प्राधान्यख्यापनार्थम् । ये च धर्माणामर्थाद् धर्मशास्त्राणां पारगाः, चतुर्दशविद्यास्थानानां पारगामिन इत्यर्थः ॥७॥
जे समत्था समुद्धत्तुं परमप्पाणं एव य ।
तेसिं अन्नमिणं देयं भो भिक्खू ! सव्वकामियं ॥८॥ व्याख्या-ये समर्थाः समुद्धर्तुं 'भवाम्भोधेरिति गम्यते' परमन्यमात्मानमपि च 'तेसिं' ति 'सुब्ब्यत्ययात् तेभ्यो द्विजेभ्यो देयं दातव्यमन्नमिदं भो भिक्षो ! सर्वकामिकं षड्रसोपेतमित्यर्थः ॥८॥ स साधुः किं कृतवान् ?
सो तत्थ एव पडिसिद्धो जायगेण महामुणी ।
न वि रुट्ठो न वि तुट्ठो उत्तमट्ठगवेसओ ॥९॥ व्याख्या-स जयघोषमुनिस्तत्र यज्ञे एवं प्रतिषिद्धो याजकेन यागकर्ता विजयघोषविप्रेण महामुनिर्नापि रुष्टो नापि तुष्टः 'किन्तु समतया स्थित इति भावः' यतोऽसौ उत्तमार्थो मोक्षस्तद्गवेषको मुक्तिं विनाऽन्यत्र निःस्पृह इत्यर्थः ॥९॥
नन्नटुं पाणहेउं वा न वि निव्वाहणाय वा ।
तेसिं विमोक्खणट्ठाए इमं वयणमब्बवी ॥१०॥ व्याख्या-न नैवाऽन्नार्थं, नापि पानहेतुं वा, नापि निर्वाहणाय वा वस्त्रतैलाभ्यङ्गादिना यापनार्थं 'सर्वत्रात्मन इति गम्यते' तर्हि किमर्थम् ? इत्याह-तेषां याज्ञिकानां विमोक्षणार्थाय यथा कथममी मुक्तिमाप्नुयुरित्यर्थमिदं वक्ष्यमाणं वचनमब्रवीदिति ॥१०॥ तदेवाह
न वि जाणसि वेयमुहं न वि जन्नाण जं मुहं । नक्खत्ताण मुहं जं च जं च धम्माण वा मुहं ॥११॥
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org