________________
६५३
पञ्चविंशं यज्ञीयाध्ययनम्
वाणारसीइ बहिया उज्जाणंमि मणोरमे ।
फासुए सिज्जसंथारे तत्थ वासमुवागए ॥३॥ आसां व्याख्या-ब्राह्मणकुलसम्भूत आसीदभूत्, ईदृशोऽपि जननीजात्यन्यथात्वे ब्राह्मणो न स्यादत आह विप्रो द्विजन्मा महायशा विख्यात इत्यर्थः । 'जायाई'त्ति यायाजीअत्यर्थं यागकर्ता, क्व ? इत्याह-यमाः पञ्च प्राणातिपातविरत्यादिरूपास्त एव यज्ञो भावपूजात्मकत्वाद् भावयज्ञस्तस्मिन्, हिंसात्मकं द्रव्ययज्ञं परित्यज्य महाव्रतात्मकभावयज्ञसुस्थित इत्यर्थो जयघोष इति नामकः ॥ स च कीदृशः किं कृतवान् ? इत्याह-'इंदिय'त्ति इन्द्रियग्रामं निगृह्णाति स्वस्वविषयनिवर्तनेन नियमयतीत्येवंशील इन्द्रियग्रामनिग्राही मार्गगामी मुक्तिपथयायी महामुनिामानुग्रामं 'रीयंत' त्ति रीयमाणो विहरन् प्राप्तो वाराणसी नगरीम् ॥ ततश्च वाराणस्या बहिर्यदुद्यानं मनोरमं तस्मिन् प्रासुके शय्यायां वसतौ संस्तारकः शिलादिर्यत्र तादृशे तत्र वासमवस्थानमुपागत इति गाथात्रयार्थः ॥१-२-३॥ इतश्च
अह तेणेव कालेणं पुरीए तत्थ माहणे ।
विजयघोसि त्ति नामेणं जन्नं जयइ वेयवी ॥४॥ व्याख्या-अथ 'सुब्यत्ययात्' तस्मिन्नेव काले पुर्यां तत्र ब्राह्मणो विजयघोष इति नाम्ना जयघोषभ्रातेत्यर्थः यज्ञं द्रव्ययज्ञं यजति वेदवित् ॥४॥
अह से तत्थ अणगारे मासक्खमणपारणे ।
विजयघोसस्स जन्नंमि भिक्खमट्ठा उवट्ठिए ॥५॥ व्याख्या-अथ 'से' इति स जयघोषोऽनगारस्तत्र यागे 'मकारस्यालाक्षणिकत्वाद्, दीर्घश्च प्राकृतत्वात्' भिक्षार्थमुपस्थितः प्राप्तः । शेषं स्पष्टम् ।।५।। तदा च याजक: किं कृतवान् ? इत्याह
समुवट्ठियं तहिं संतं जायगो पडिसेहए।
न हु दाहामि ते भिक्खं भिक्खू ! जायाहि अन्नओ ॥६॥ व्याख्या-समुपस्थितमुपागतं भिक्षार्थं 'तहिं संत' ति तत्र सन्तं जयघोषमुनि याजको यागकारको विजयघोषो विप्रः प्रतिषेधति निराकुरुते । यथा 'न हु' नैव दास्यामि 'ते' तुभ्यं भिक्षां भिक्षो ! 'जायाहि' त्ति याचस्वान्यतोऽस्मद्व्यतिरिक्तात् ।।६।।
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org