________________
पञ्चविंशं यज्ञीयाध्ययनम्
अनन्तराध्ययने प्रवचनमातर उक्तास्ताश्च ब्रह्मगुणस्थितस्यैव स्युरिति जयघोषचरितवर्णनाद्वारेण ब्रह्मगुणाविधायकं पञ्चविंशमध्यनमारभ्यते । जयघोषचरितं च यथा
वाराणसीनगर्यां जज्ञाते युग्मिनौ द्विजौ द्वौ तु । जयघोष-विजयघोषाभिधानको बान्धवौ प्रीतौ ॥१॥ अन्यदा जयघोषस्तु स्नातुं सरनदीं गतः । तत्र प्रैक्षिष्ट सर्पण गृहीतं दुर्दरं जवात् ॥२॥ मार्जारेण च सर्पोऽपि समाक्रान्तो हठादपि । तथाप्यहिस्तु मण्डूकं चीत्कुर्वाणं स खादति ॥३॥ मार्जारोऽपि च तं सर्प तडत्फडन्तं तु खादितुं लग्नः । मिथ एवं ग्रसमानान् दृष्ट्वासौ दध्यिवान् जीवान् ॥४॥ अहो ! ह्यसारता नूनं संसारस्याप्यनित्यता । यो यं प्रभवितुं शक्तः स तकं ग्रसतेतराम् ॥५॥ कतान्तः पुनरत्युच्चैसितुं प्रभविष्णुकः । विश्वं विश्वमतो धर्मो रक्षको ह्यस्त्यपायत: ॥६॥ ध्यात्वेति प्रतिबुद्धोऽसौ जयघोषद्विजोत्तमः ।
गङ्गामुत्तीर्य संवेगात् साधुपार्वे व्रतं ललौ ॥७॥ शेषचरितं सूत्रकृदेवाह
माहणकुलसंभूओ आसि विप्पो महायसो । जायाई जमजन्नंमि जयघोसि त्ति नामओ ॥१॥ इंदियगामनिग्गाही मग्गगामी महामुणी । गामाणुगामं रीयंते पत्ते वाणारसिं पुरिं ॥२॥
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org