________________
६५१
चतुर्विंशं प्रवचनमात्रीयमध्ययनम्
स निशम्य गुरोर्वाक्यमीहापोहान्मुमूर्छ च । जाते क्षणाच्च चैतन्ये स्वीयां प्राग्जातिमस्मरत् ॥८७॥ गुरूदितं तथाभूतं दृष्ट्वा हृष्टोऽतिविस्मितः । स उवाचोचितं पुण्यं प्रसद्यादिश मे प्रभो ! ॥८८॥ "केवल्याह भवे चातुर्गतिके जन्तवोऽखिलाः । एहिरेयाहिरां चक्रुररघट्टघटीनिभाः ॥८९॥ मनुष्यत्वादिसामग्रीमवाप्यात्महिते कुधीः । यः प्रमाद्यति पीयूषपाने स ह्यलसायते" ॥९०॥ ततः प्रबुद्धः पुण्यात्मा पुण्यसार: प्रमोदभाक् । संवेगतस्तस्य गुरोः पादान्ते व्रतमाददे ॥९१॥ स शिक्षाद्वयनिष्णातः सत्तपःशेषिताङ्गकः । शुद्धं चरणमाचर्य प्रान्ते चासेदिवान् दिवम् ॥९२॥ ततश्च्युतो विदेहेषु नृत्वं प्राप्यार्यवंशजम् । दीक्षया केवलं लब्ध्वा स गमिष्यति निर्वृतिम् ॥९३।। एवं श्रीपुण्यसारः प्रवचनजननीसम्यगाराधनेन. सोऽध्यास्ताध्यात्मशुद्धो दलितकलिमलांशो यथा सिद्धिसौधम् । एतासूच्चैर्यतध्वं सुविहतयतयो भोस्तथा संयमश्रीजुष्टा येनाऽक्षयं तत् परमपदसुखं यूयमप्याश्रयध्वम् ॥१४॥
इति अष्टप्रवचनमात्राराधनफले पुण्यसारकथा ॥२७॥ ग्रं० २६०॥ इति श्रीकमलसंयमोपाध्यायविरचितायां सर्वार्थसिद्धौ श्रीउत्तराध्ययनटीकायां
चतुर्विंशं प्रवचनमात्रीयमध्ययनं समाप्तम् ॥२४॥
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org