________________
चतुर्विंशं प्रवचनमात्रीयमध्ययनम्
हारार्धहार-केयूरमुख्यान्याभरणानि च । चीनांशुकदुकूलानि नेपथ्यानि व्यदीधपत् ॥३१॥ यवाङ्करेषु चोप्तेषु माङ्गल्यद्वनिपूर्वकम् । तेन चिक्षिपिरे कन्याः सर्वास्ता वर्णके मुदा ||३२|| संस्थाप्य सर्वाः सम्भूष्य बद्ध्वा पाणौ च कङ्कणम् । श्रेष्ठी तु मण्डपद्वारे वरमार्ग विलोकते ||३३|| वरं विनाऽपि वैवाहसामग्री क्रियतेऽमुना । वलभ्यामेतदाश्चर्यं दृष्ट्वाऽऽगामत्र सत्यवाक् ॥३४॥ कामाक्षाऽऽख्यत् सखीदं तद् वीक्षेऽहमपि कौतुकम् । प्रत्याह साऽपि यद्येवं तर्ह्यागच्छ मया सह ||३५|| पुण्यसारस्तदाकर्ण्य तं वटं दृढमऽग्रहीत् । ततो देव्यौ वटेन द्राक् जग्मतुर्वलभीपुरीम् ॥३६॥ तदुद्याने वटं मुक्त्वा देव्यौ कौतुकमीक्षितुम् । विवाहमण्डपेऽगातां पुण्यसारोऽपि चाऽन्वगात् ॥३७॥ लग्नक्षणे गणेशेन पुण्यसारोऽथ दर्शितः । कामदेवाय योग्योऽयं वरस्तेऽङ्गभुवामिति ॥ ३८॥ श्रेष्ठी संस्नाप्य तं भद्रं कङ्कणाभरणान्वितम् । विधाप्य कन्याधिष्ठानं मातृमन्दिरमानयत् ॥३९॥ तं कुमारं कुमाराभं श्रेष्ठयाद्याः कन्यका अपि । निरीक्ष्याङ्गेन दीव्यं तं स्वं स्वं धन्यममंसत ॥४०॥ अचिन्त्यंश्च ताः सर्वा महद्भाग्यादयं पतिः । प्राप्तोऽस्माभिरपुण्यैः किं कामकुम्भो ह्यवाप्यते ? ॥ ४१ ॥ कुमारस्ताः कनीऽष्टौ यथानीति व्यवाहयत् । कामदेवस्तदा तस्मै भूरि रत्नादिकं ददौ ||४२|| वधूभिरष्टभिः सोऽथ भुञ्जानः शर्म तस्थिवान् । तंत्र सिद्धिभिऽष्टाभिर्महासिद्धः पुमानिव ॥ ४३॥ अन्यदोषान्तयामे स प्रबुद्ध इति दध्यिवान् । एकाकी निरगां निःस्वो गेहात् पित्राऽपमानितः ॥ ४४ ॥
Jain Education International 2010_02
For Private & Personal Use Only
६४७
www.jainelibrary.org