________________
चतुर्विंशं प्रवचनमात्रीयमध्ययनम्
धनसारो धनसारश्रेष्ठी श्रेष्ठोऽस्ति तत्र हि । धनश्रीस्तस्य जायास्ते धन्या श्रीर्मूर्त्तिमत्यहो ! ॥३॥ तयोर्भुञ्जानयोर्भोगान् प्रीत्यैकीभूतयोरिव । अनेहा व्यतिचक्राम कियानपि यथासुखम् ॥४॥
अभूतामन्यदाऽपत्यचिन्तान्यञ्चितचेतसौ । तथाथाराद्धया गोत्रदेव्योचे धर्मतो हि तत् ॥५॥
यदाशाविषयं नैव लोकेऽस्मिन् यच्च दुर्घटम् । हस्तसात् कुरुते क्षिप्रं प्राक्पुण्यं प्राणिनां हि तत् ॥६॥ ततः श्रीदेव - गुर्वर्चाऽभयदानादितत्परौ । समधार्मिकवात्सल्योपकारकरणोद्यतौ ॥७॥
तस्तुस्तौ तयोः पुण्यप्रभावनादभवत् सुतः । स पुण्यसार इत्याख्यां लब्धवान् लब्धवर्णतः ॥८॥ पितुः प्रमोदेन समं वर्धमानोऽष्टवार्षिकः । जज्ञे पित्रा स विद्यार्थं प्रेषि पाठकसन्निधौ ॥९॥ सोऽधीयानोऽपि दुस्सङ्गाद् द्यूतादिव्यसनोऽजनि । यथाऽऽम्रोऽरिष्टसंसर्गादनिष्टरसभाग् भवेत् ॥१०॥ पुण्यसारो दिवा रात्रौ विटपेटकसङ्गतः । वसन् क्रीडन् हसन्नश्नन् बम्भ्रमीति स सर्वतः ॥ ११॥ द्यूतव्यसनिनाऽनेन जह्रे मातुर्महाऽर्थकः । मुक्ताहार सहस्रेण दीनारेण सहाऽन्यदा ||१२|| वृत्तान्तमेतं मत्वाऽभूद् धनसारोऽतिदुःखभाक् । तत्क्षणात् पुत्रमाह्वाय्याऽनुशासितुमिदं जगौ ॥ १३॥ कलाऽभ्यासे समारब्धे चौर्याभ्यासं करोषि रे ! । सुतव्याजाद् रिपुर्जातो विटैः साकं परिभ्रमन् ॥१४॥ पूज्यायाः स्वजनन्याः किं हरन् हारं न लज्जित: ? । हारे दत्ते त्वयैतव्यं मम वेश्मनि नान्यथा ॥ १५॥ दध्यावनुतपन् सोऽथ पितृवैर्यहमङ्गजः । अथ देशान्तरं गत्वा दास्येऽस्मै हारमऽर्जितम् ॥१६॥
Jain Education International 2010_02
For Private & Personal Use Only
६४५
www.jainelibrary.org