________________
६४४
उत्तरज्झयणाणि-२ संरंभ-समारंभे आरंभे य तहेव य ।
कायं पवत्तमाणं तु नियत्तिज्ज जयं जई ॥२५॥ अनयोर्व्याख्या-स्थाने-ऊर्ध्वस्थाने, निषीदने चोपवेशने, तथैव च त्वग्वर्तने स्वापे, उल्लङ्गने कुतोऽपि हेतोर्गर्ताऽऽदेरुत्क्रमणे, प्रलङ्गने सामान्येन गमने 'उभयत्र सुब्लोपः', इन्द्रियाणां च योजने शब्दादिविषयेषु व्यापारणे सर्वत्र 'वर्तमान इति शेषः' ततः स्थानादिषु वर्तमानः । किम् ? इत्याह-इह संरम्भोऽभिघातसङ्कल्पसूचकं दृष्टिमुष्ट्यादिसंस्थानमेव उपचारात् सङ्कल्पार्थं संरम्भशब्दवाच्यम्, समारम्भः परितापकरो मुष्ट्याद्यभिघातस्ततो द्वन्द्वः तस्मिन् । आरम्भे प्राणिवधात्मनि कायं प्रवर्तमानं निवर्तयेत् शेषं पूर्ववत् । इति गाथाद्वयार्थः ॥२४-२५॥ समिति-गुप्त्योर्विशेषमाह
एयाओ पंच समिईओ चरणस्स य पवत्तणे ।
गुत्ती नियत्तणेऽवुत्ता असुभत्थेसु सव्वसो ॥२६॥ व्याख्या-एताः पूर्वोक्ताः पञ्च समितयश्चरणं चारित्रं सच्चेष्टेति यावत् तस्य प्रवर्तने 'चस्यावधारणार्थत्वात्' प्रवर्तने एव । को भावः ? सच्चेष्टासु प्रवृत्तावेव समितयः । तथा गुप्तयो निवर्तनेऽप्युक्ता, अशुभार्थेभ्योऽशोभनमनोयोगादिभ्यः 'सूत्रत्वात् पञ्चम्यर्थे सप्तमी' 'सव्वसो'त्ति सर्वेभ्यः, अपिशब्दाच्चरणप्रवर्तने च 'उपलक्षणमेतत् शुभार्थेभ्योऽपि निवृत्तेः' वाक्-काययोनिर्व्यापारताया अपि गुप्तिरूपत्वात् । को भावः ? रक्तद्विष्टस्य वाक्-काय-मनोव्यापाराव्यापाररूपा गुप्तिरिति ॥२६॥ अध्ययनार्थोपसंहारेणैतदाचरणफलमाह
एया पवयणमाया जे सम्मं आयरे मुणी ।
सो खिप्पं सव्वसंसारा विप्पमुच्चइ पंडिए ॥२७॥ त्ति बेमि ॥ व्याख्या-एताः प्रवचनमातृर्यः सम्यगवैपरीत्येन, न तु दम्भादिनाऽऽचरेन्मुनिः स क्षिप्रं सर्वसंसाराद् विप्रमुच्यते पण्डित इति ब्रवीमीति प्राग्वत् । अत्रार्थे पुण्यसारदृष्टान्तः
गोपाचलश्रियाकीर्णे श्रीगोपाचलपत्तने । भूपः समरसिंहोऽभूद्, द्विषत्समरसिंहतः ॥१॥ समरश्रीरभूत् कान्ता स्मरश्रीरिव पण्डिता । स वागीशोऽप्यवागीशो यद्रूपादिगुणस्तुतौ ॥२॥
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org