________________
चतुर्विंशं प्रवचनमात्रीयमध्ययनम्
६४३ तत्राद्यामाह
सच्चा तहेव मोसा य सच्चामोसा तहेव य । चउत्थी असच्चमोसा य मणगुत्ती चउव्विहा ॥२०॥ संरंभ-समारंभे आरंभे य तहेव य ।
मणं पवत्तमाणं तु नियत्तिज्ज जयं जई ॥२१॥ अनयोर्व्याख्या-सद्भ्योऽर्थात् पदार्थेभ्यो हितो यथावद् विकल्पेन सत्यो मनोयोगस्तद्विषया मनोगुप्तिरपि सत्या १। तथैव मृषा च तद्विपरीतमनोयोगविषया २॥ सत्यामृषा उभयात्मकमनोयोगगोचरा ३। 'तथैव चेति समुच्चये' असत्यामृषा उभयस्वभावविकलमनोयोगगोचरा मनोगुप्तिश्चतुर्थी ४। एवं मनोगुप्तिश्चतुर्विधा ॥ अस्या एव स्वरूपं निरूपयन्नाह-संरम्भश्चित्तसङ्कल्पस्तथाहं ध्यास्यामि यथाऽसौ मरिष्यतीत्येवंविधः । समारम्भः परपीडाकरोच्चाटनादिहेतुध्यानम् 'अनयोर्द्वन्द्वे' संरम्भ-समारम्भं तस्मिन् । आरम्भोऽत्यन्तसंक्लेशतः परप्राणापहारक्षममशुभध्यानमेव तस्मिन् 'चः समुच्चये' । तथैवेति तेनैवाशुभसङ्कल्पनप्रकारेण मनः प्रवर्तमानं 'तुर्विशेषणे' निवर्तयेत् यतमानो यतिरिति गाथाद्वयार्थः ॥२०-२१॥ वाग्गुप्तिमाह
सच्चा तहेव मोसा य सच्चामोसा तहेव य । चउत्थी असच्चमोसा य वयगुत्ती चउव्विहा ॥२२॥ संरंभ-समारंभे आरंभे य तहेव य ।
वयं पवत्तमाणं तु नियत्तिज्ज जयं जई ॥२३॥ अनयोाख्या-सत्या वाक जीवं जीवमिति वदतः, असत्या जीवमजीवमिति, सत्यामृषा क्वचित् समये मनुष्यशतमुत्पन्नमुपरतं चेति, असत्यामृषा विधेहि स्वाध्यायं नैतत्सममन्यत् तपोऽस्तीत्यादि । वाचिकः संरम्भः परव्यापादनक्षमक्षुद्रविद्यादिपरावर्तनासङ्कल्पसूचको ध्वनिरेव । समारम्भः परपरितापकमन्त्रादिपरावर्तनम् । आरम्भोऽतिसङ्क्लेशतः प्राणिव्यपरोपणक्षममन्त्रादिजपनम् । तस्मिन् प्रवर्तमानं वाचो निवर्तयेद् यतमानो यतिरिति पूर्ववत् ॥२२-२३॥ कायगुप्तिमाह
ठाणे निसीयणे चेव तहेव य तुयट्टणे । उल्लंघण पल्लंघण इंदियाण य जुंजणे ॥२४॥
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org