SearchBrowseAboutContactDonate
Page Preview
Page 218
Loading...
Download File
Download File
Page Text
________________ ६४२ अणावायमसंलोए अणावाए चेव होइ संलोए । आवायमसंलोए आवाए चेव संलोए ॥१६॥ अणावायमसंलोए परस्साणुवघाइए । समे असिरे वावि अचिरकालकमि य ॥१७॥ विछिन्ने दूरमोगाढे नासन्ने बिलवज्जिए । तसपाण-बीयरहिए उच्चाराईणि वोसिरे ॥ १८॥ उत्तरज्झयणाणि - २ आसां व्याख्या-उच्चारं पुरीषं गूथं, प्रस्त्रवणं मूत्रं, खेलं मुखनिर्गतं श्लेष्मादि, सिङ्घानकं नासिकानिःसृतं श्लेष्माणं, जल्लोऽङ्गमलस्तम्, आहारं भोजनं, उपधि वर्षाकल्पादि, देहं शरीरमन्यद् वा कारणतो गृहीतं गोमयादि 'अपिः पूरणे' तथाविधं परिष्ठापनार्हं ‘स्थण्डिले व्युत्सृजेदित्युत्तरेण सम्बन्धः ' ॥ स्थण्डिलं च दशविशेषणपदविशिष्टम् । तत्राद्यविशेषणपदयोर्भङ्गरचनामाह - न विद्यते आपातः स्व-परोभयपक्षपार्वागमनरूपोऽस्मिन्नित्यनापातम् 'असंलोए' त्ति न विद्यते संलोको दूरस्थितस्यापि स्वपक्षादेरालोको दर्शनं यस्मिंस्तत् तथेति प्रथमो भङ्गः । अनापातं च संलोकं भवतीति द्वितीयः । आपातमसंलोकं च तृतीयः । आपातं संलोकं च चतुर्थः ॥ यादृशे स्थण्डिले व्युत्सृजेत् तदाह-अनापाते असंलोके कस्य ? इत्याह- परस्य स्वपक्षादेः १। अनुपघातिके संयमात्मप्रवचनोपघातरहिते २। समे निम्नोन्नतत्वरहिते ३। अशुषिरे वाऽपि तृण-पर्णाद्यनाकीर्णे ४। अचिरकालकृते च दाहादिनाऽल्पकालकृते, चिरकृते सम्मूर्च्छन्ति जीवा: ५। विस्तीर्णे जघन्यतोऽपि हस्तप्रमाणे ६ | दूरमवगाढे जघन्यतोऽप्यधश्चतुरङ्गुलमचित्तीभूते ७। नासन्ने ग्रामारामादेः ८| बिलवर्जिते मूषकादिरन्ध्ररहिते ९ । त्रसप्राण - बीजरहिते सप्राणा द्वीन्द्रियादयो बीजानि च शाल्यादीनि 'सर्वैकेन्द्रियोपलक्षणमिदं' तै रहिते १०। एवंविधे स्थण्डिले उच्चारादीनि साधुर्व्युत्सृजेत् परिष्ठापयेत् पुनरुच्चारादीनीत्यभिधानं स्मरणार्थमदुष्टमिति गाथाचतुष्कार्थः ॥१५-१६-१७-१८॥ अथोक्तार्थमुपसंहरन् वक्तव्यार्थं वक्तुमाह एयाओ पंच समिईओ समासेण वियाहिया । इत्तो य तओ गुत्तीओ वुच्छामि अणुपुव्वसो ॥१९॥ व्याख्या - एताः पञ्च समितयः समासेन संक्षेपेण व्याहृताः । 'इत्तो' त्ति अतश्च पञ्चसमित्यनन्तरं ‘तओ'त्ति तिस्रो गुप्तीर्वक्ष्ये । 'अणुपुव्वसो'त्ति आर्षत्वादानुपूर्व्यानुक्रमेणेत्यर्थः ॥ १९॥ Jain Education International 2010_02 For Private & Personal Use Only www.jainelibrary.org
SR No.002566
Book TitleAgam 43 Mool 04 Uttaradhyayan Sutra Part 02
Original Sutra AuthorN/A
AuthorKamalsanyamvijay, Vajrasenvijay
PublisherBhadrankar Prakashan
Publication Year2009
Total Pages516
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_uttaradhyayan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy