________________
चतुर्विंशं प्रवचनमात्रीयमध्ययनम्
६४१ उग्गमुप्पायणं पढमे बिइए सोहिज्ज एसणं ।
परिभोगंमि चउक् विसोहिज्ज जयं जई ॥१२॥ अनयोाख्या-गवेषणायां उद्गमोत्पादनालक्षणायां द्वात्रिंशद्विधायामन्वेषणायां, ग्रहणे च शङ्कितादिभेदभिन्ने दशविधे स्वीकरणे 'उभयत्रैषणेति सम्बध्यते' ततो गवेषणैषणा ग्रहणैषणा, परिभोगे ग्रासे एषणा पञ्चप्रकारा वक्ष्यमाणचतुःप्रकारा वा परिभोगैषणा च या 'आहार'त्ति वचनव्यत्ययादाहारोपधि-शय्यासु प्रतीतास्वेता: पूर्वोक्ता एषणाः तिस्रो विशोधयेत् निर्दोषा विदध्यात् ॥ कथम् ? इत्याह-उद्गमोत्पादनं शोधयेदिति सम्बन्धः । कोऽर्थः ? आधाकर्मादिदोषत्यागादुद्गमं, धात्र्यादिदोषत्यागादुत्पादनां, 'पढमे'त्ति प्रथमायां गवेषणैषणायां, 'बीइए' त्ति द्वितीयायां ग्रहमैषणायां शोधेयच्छङ्कितादिदोषत्यागत एषणां ग्रहणकालभाविग्राह्यदोषान्वेषणारूपाम् । 'परिभोगे' इति परिभोगैषणायां चतुष्कं पिण्ड-शय्या-वस्त्र-पात्रात्मकं विशोधयेत् । कोऽर्थः ? उद्गमादिदोषत्यागतः शुद्धमेव परिभुञ्जीत। अथवा संयोजना-प्रमाणाङ्गार-धूमाकारणात्मकचतुष्कं शोधयेदङ्गार-धूमयोर्मोहनीयान्तर्गतत्वेनैकतया विवक्षितत्वात् । 'जयं' ति यतमानो यतिरिति । द्विः क्रियाऽभिधानमतिशयख्यापनार्थमिति गाथाद्वयार्थः ॥११-१२॥ आदाननिक्षेपणासमितिमाह
ओहोवहोवग्गहियं भंडगं दविहं मणी । गिण्हंतो निक्खिवंतो य पउंजिज्ज इमं विहिं ॥१३॥ चक्खुसा पडिलेहित्ता पमज्जिज्ज जयं जई ।
आयए निक्खिविज्जा वा दुहओ वि समिए सया ॥१४॥ अनयोर्व्याख्या-'मध्यवर्युपधिशब्दो डमरुकमणिन्यायेनोभयत्र सम्बध्यते' तत ओघोपधिमौपग्रहिकोपधिं च भाण्डकमुपकरणं रजोहरण-दण्डकादि द्विविधं द्विभेदमुक्तनीत्या मुनिर्गृह्णन् निक्षिपंश्च प्रयुञ्जीत व्यापारयेदिमं विधिं न्यायं वक्ष्यमाणं ॥ तमेवाह-चक्षुषा 'पडिलेहित्त'त्ति प्रत्युपेक्ष्याऽवलोक्य प्रमार्जयेद् रजोहरणादिना विशोधयेत् । यतमानो यतिस्ततः 'आयए'त्ति आददीत गृह्णीयान्निक्षिपेद् वा स्थापयेत् । 'दुहओ वि'त्ति द्वावपि प्रक्रमादौघिकौपग्रहिकोपधी यदि वा द्विधापि द्रव्यतो भावतश्च समितः प्रक्रमादादाननिक्षेपणासमितिमान् सन् सदा नित्यमिति गाथाद्वयार्थः ॥१३-१४॥ पारिष्ठापनासमितिमाह
उच्चारं पासवणं खेलं सिंघाण जल्लियं । आहारं उवहिं देहं अन्नं वा वि तहाविहं ॥१५॥
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org