________________
६४०
उत्तरज्झयणाणि-२ निरालम्बनस्य हि गमनं नानुज्ञातमेव । तत् किम् ? इत्याह-ज्ञानं सूत्रार्थोभयावबोधरूपं, दर्शनं तत्त्वार्थश्रद्धानरूपं, चरणं चारित्रं, तथाशब्देन ज्ञानादीन्याश्रित्य प्रत्येकं द्विकादिसंयोगे गमनालम्बनमनुज्ञातम् । कालश्चर्याया दिवस उक्तोऽर्हदादिभिः, रात्रौ ह्यचक्षुर्विषयत्वेन पुष्टालम्बनेनैव गतेरनुज्ञातत्वात् । मार्ग उत्पथेनोन्मार्गेण वर्जितः, उत्पथे हि व्रजतः संयमात्मनि विराधना स्यात् ॥ यतनां वुवूर्षुराह-'दव्व०' त्ति स्पष्टा, नवरं तां चतुर्विधां यतनां मे कीर्तयतः सम्यक् स्वरूपेण कथयतः शृणु 'हे शिष्य ! इति गम्यम्' || तामेवाह-'दव्व०' त्ति द्रव्यतो जीवादिद्रव्याण्याश्रित्यैवं यतना यच्चक्षुषा तानि प्रेक्षेत पश्येत्, युगमात्रं च चतुर्हस्तप्रमाणं क्षेत्रं प्रेक्षेतेति क्षेत्रतः, कालतो यतना 'जाव'त्ति यावन्तं कालं 'रीएज्ज' त्ति रीयते भ्रमति 'तावत्कालमानेति गम्यते,' उपयुक्तश्च सावधानो यद् रीयेत सा भावतो यतना ॥ उपयुक्तत्वमेवाह-'इंदियत्थे०' त्ति इन्द्रियार्थान् शब्दादीन् विवयं तदध्यवसायं त्यक्त्वा 'एवोऽप्यर्थः' ततः स्वाध्यायं चापि पञ्चधेति वाचनादिभेदतः पञ्चप्रकारं गत्युपयोगोपघातित्वात् 'त्यक्त्वेति योज्यम्' । तस्यामेवेर्यायां मूर्तिः शरीरं 'अर्थाद् व्याप्रियमाणा' यस्यासौ तन्मूत्तिः । तथा तामेव पुरस्करोतितत्रोपयुक्ततया प्राधान्येनाङ्गीकरोतीति तत्पुरस्कारोऽनेन काय-मानसोस्तत्परतोक्ता । वचसो हि तत्र व्यापार एव नास्ति एवमुपयुक्तः सन्नीरू रीयते 'यतिरिति शेषः' इति गाथाचतुष्टयार्थः ॥५-६-७-८॥ भाषासमितिमाह
कोहे माणे य माया य लोभे य उवउत्तया । हासे भय-मोहरिए विगहासु तहेव य ॥९॥ एयाइं अट्ठ ठाणाइं परिवज्जित्तु संजए ।
असावज्जं मियं काले भासं भासिज्ज पन्नवं ॥१०॥ अनयोर्व्याख्या-क्रोधाधुपयुक्तता हास्ये भये मौखर्ये वाचालतायां विकथासु राजादिचतुर्विधासत्कथासु तथैवोपयुक्तता ॥ 'एया०' त्ति एतान्युक्तरूपाण्यष्टौ स्थानानि परिवर्त्य संयतोऽसावद्यां निर्दोषां तामपि मितां स्तोकां काले प्रस्तावे भाषां वाचं भाषेत वदेत् प्रज्ञा बुद्धिस्तद्वानिति गाथाद्वयार्थः ॥९-१०॥ एषणासमितिमाह
गवेसणाए गहणे य परिभोगेसणा य जा । आहारोवहि-सेज्जाए एए तिन्नि विसोहए ॥११॥
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org