________________
चतुर्विंशं प्रवचनमात्रीयमध्ययनम्
६३९ व्याख्या-एता अनन्तरोक्ता अष्ट समितयो गुप्तीनामपि प्रवचनविधिना सन्मार्गव्यवस्थापनोन्मार्गगमनविनिवारकत्वादात्मनः सच्चेष्टात्मकत्वाच्च समितिशब्दवाच्यत्वमस्त्येवेति । यत् तु भेदेनोपादानं तत् समितीनां प्रवीचारात्मकत्वे, गुप्तीनां तु प्रवीचाराप्रवीचाररूपत्वेनान्योन्यं कथञ्चिद् भेदात् । तथा चागमः
“समितो नियमा गुत्तो गुत्तो समियत्तणमि भइयव्वो ।
कुसलवइमुदीरंतो जं वइगुत्तो व समिओ वि" ॥१॥ ततः समासेन सर्वश्रुतसङ्ग्रहणे व्याख्याताः । अत एव द्वादशाङ्गं जिनाख्यातं मातं 'तुशब्दस्यैवार्थत्वात्' मातमेवान्तर्भूतमेवेति यासु समित्यादिषु प्रवचनमागम इति । किञ्च सर्वा अप्यमूश्चारित्ररूपा, ज्ञान-दर्शनाविनाभावि च चारित्रं, न चैतत्त्रयातिरिक्तमन्यदर्थतो द्वादशाङ्गमिति सर्वमप्येतासु प्रवचनं मातमुच्यते इति ॥३॥ तोर्यासमितिस्वरूपमाह
आलंबणेण कालेण मग्गेणं जयणाइ य ।
चउकारणपरिसुद्धं संजए इरियं रिए ॥४॥ व्याख्या-आलम्बनेन कालेन मार्गेण यतनया च चतुःकारणैरेभिरालम्बनादिभिरेव परिशुद्धां निर्दोषां संयतो यतिरीर्यां गतिं 'रीए'त्ति रीयेतानुष्ठानविषयतया प्राप्नुयात् ॥४॥ आलम्बनादीन्येव व्याचष्टे
तत्थ आलंबणं नाणं दसणं चरणं तहा । काले य दिवसे वुत्ते मग्गे उप्पहवज्जिए ॥५॥ दव्वओ खित्तओ चेव कालओ भावओ तहा । जयणा चउव्विहा वुत्ता तं मे कित्तयओ सुण ॥६॥ दव्वओ चक्खुसा पेहे जुगमित्तं च खित्तओ । कालओ जाव रीएज्जा उवउत्ते य भावओ ॥७॥ इंदियत्थे विवज्जित्ता सज्झायं चेव पंचहा ।
तम्मुत्ती तप्पुरक्कारे उवउत्ते रियं रिए ॥८॥ आसां व्याख्या-तत्र तेष्वालम्बनादिषु मध्ये यदालम्ब्य गम्यते तदालम्बनं, १. समितो नियमाद् गुप्तो गुप्तः समितत्वे भक्तव्यः ।
कुशलवच उदीरयन् यद् वचोगुप्तोऽपि समितोऽपि ॥१॥
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org