SearchBrowseAboutContactDonate
Page Preview
Page 214
Loading...
Download File
Download File
Page Text
________________ चतुर्विंशं प्रवचनमात्रीयमध्ययनम् अनन्तराध्ययने परेषां चित्तविप्लुतिः केशि-गौतमवदपनेयेत्युक्तमिह तदपनयनं च सम्यग्वाग्योगत एव, स च प्रवचनमातृस्वरूपपरिज्ञानादिति तत्स्वरूपाभिधायकं चतुर्विंशमध्ययनमारभ्यते अट्ठ प्पवयणमायाओ समिई गुत्ती तहेव य । पंचेव य समिईओ तओ गुत्तीओ आहिया ॥१॥ व्याख्या-अष्टौ प्रवचनमातरः, समिति सम्यगर्हन्मतानुसारितया इतिरात्मचेष्टा समितिरीर्यादिचेष्टासु पञ्चसु तान्त्रिकीयं संज्ञा, गोपनं गुप्तिः सम्यग्योगनिग्रहः 'तथैव चेति समुच्चये' एताः प्रवचनमातरः । अष्टसङ्ख्यात्वमेव स्पष्टयति 'पंच'त्ति पञ्चैव समितयस्तिस्रो गुप्तयः 'आहिय'त्ति आख्याताः कथिताः 'तीर्थकृदादाभिरिति गम्यते' ॥१॥ ता एव नामत आह इरियाभासेसणादाणे उच्चारे समिई इय । मणगुत्ती वइगुत्ती कायगुत्ती य अट्ठमा ॥२॥ व्याख्या-ईरणं गमनं ईर्या गतिः । भाषणं भाषा । एषणा उद्गमैषणाऽऽद्या गवेषणाऽऽहारादेः । आदानं ग्रहणं पात्रादेनिक्षेपोपलक्षणमिदम्, ततो द्वन्द्वस्तस्मिन् । उच्चारशब्देन सूचकत्वादुच्चारादिपरिष्ठापनायां च । समितिरस्य च प्रत्येकसम्बन्धादीर्यासमितिरित्याधभिलापः कार्यः, इतिशब्देनैतावत्य एव समितयस्तथा मनसो गुप्तिर्मनोगुप्तिरिति तत्पुरुषः, एवमुत्तरयोरपि कायगुप्तेश्च गुप्त्यपेक्षया तृतीयात्वेऽपि अष्टमीत्वं प्रवचनमात्रपेक्षया ॥२॥ निगमयन्नाह एयाओ अट्ठ समिईओ समासेण वियाहिया । दुवालसंगं जिणक्खायं मायं जत्थ उपवयणं ॥३॥ JainEducation International 2010_02 For Private & Personal Use Only www.jainelibrary.org
SR No.002566
Book TitleAgam 43 Mool 04 Uttaradhyayan Sutra Part 02
Original Sutra AuthorN/A
AuthorKamalsanyamvijay, Vajrasenvijay
PublisherBhadrankar Prakashan
Publication Year2009
Total Pages516
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_uttaradhyayan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy