________________
उत्तरज्झयणाणि-२ सर्वसूत्राणां श्रुतानां महोदधिरिव महोदधिः समुद्रः सामस्त्येन तदाधारतया तत्सम्बोधनं सर्वसूत्रमहोदधे ! अनेनोपबृंहणागर्भं स्तवनमाह ॥८५॥ पुनस्तद्वक्तव्यतामेवाह
एवं तु संसए छिन्ने केसी घोरपरक्कमे ।
अभिवंदित्ता सिरसा गोयमं तु महायसं ॥८६॥ व्याख्या-एवमऽमुना क्रमेण द्वादशानां प्रश्नानां केशिना कृतानां संशये उक्तरूपे छिन्ने 'उभयत्र जातावेकवचनम्' केशिर्घोरपराक्रम उत्कटवीर्य अभिवन्द्य शिरसा मस्तकेन गौतमं पुनर्महायशसम् ॥८६।। किं कृतवान् ? इत्याह
पंचमहव्वयधम्म पडिवज्जइ भावओ ।
पुरिमस्स पच्छिमंमी मग्गे तत्थ सुहावहे ॥८७॥ व्याख्या-पञ्चमहाव्रतरूपं धर्मं प्रतिपद्यते 'केशिरिति गम्यम्' भावत इत्यभिप्रायतः । पूर्वं हि चतुर्याम एव धर्मः प्रतिपत्तव्य इत्यभिप्राय आसीदधुना तु पञ्चयाम इति । क्व पुनरयं पञ्चयामः ? इत्याह-'पुरिमस्स' पूर्वस्याद्यस्याहतोऽभिभते, पश्चिमे पश्चिमाहत्सम्बन्धिनि मार्गे, तत्र प्रक्रान्ते तिन्दुकोद्याने वा शुभावहे कल्याणप्रापके ॥८७॥ सम्प्रत्यध्ययनोपसंहारमाह
केसीगोयमओ निच्चं तम्मि आसी समागमे ।
सुय-सीलसमुक्करिसो महत्थत्थविणिच्छओ ॥८८॥ __ व्याख्या-केशिगौतमत इति केशि-गौतमावाश्रित्य 'क्यब्लोपे पञ्चमी' नित्यं 'तम्मि' त्ति तस्मिन् प्रक्रान्ते स्थाने आसीत् समागमे मीलके । किमासीद् ? इत्याहश्रुत-शीलयोनि-चरणयोः समुत्कर्षः प्रकर्षः श्रुत-शीलसमुत्कर्षः । महार्थामहाप्रयोजना मुक्तिसाधकत्वेन येऽर्थाः शिक्षाव्रतादयस्तेषां विनिश्चयो निर्णयो महार्थार्थविनिश्चयः 'तच्छिष्याणामिति गम्यते' ||८८॥ शेषपर्षदो यदभूत् तदाह
तोसिया परिसा सव्वा सम्मग्गं समुवट्ठिया । संथुया ते पसीयंतु भयवं केसीगोयमे ॥८९॥ त्ति बेमि ॥
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org