________________
त्रयोविंशं केशि - गौतमीयमध्ययनम्
६३५
व्याख्या- अस्त्येकमद्वितीयं ध्रुवं शाश्वतं स्थानं लोकाग्रे 'दुरारुहं' ति दुःखेनारुह्यतेऽध्यास्यते इति दुरारोहम् । दुरापेणैव सम्यग्दर्शनादित्रयेण तस्य प्राप्यत्वात् । यत्र न सन्ति जरादीनि प्रतीतानि, वेदना शारीरादिपीडा ततश्च व्याध्यभावतः क्षेमत्वं, जरामरणाभावतः शिवत्वं, वेदनाऽभावतोऽनाबाधत्वमुक्तमिति यथायोगं भावनीयम् ॥८१॥ ठाणे य इइ के वुत्ते केसी गोयममब्बवी । एवं केसिं बुवंतं तु गोयमो इणमब्बवी ॥८२॥ व्याख्या - स्थानं किमुक्तं ध्रुवादिविशेषणविशिष्टमिति प्रक्रमः ॥८२॥ गौतम आह
निव्वाणं ति अबाहं ति सिद्धी लोगग्गमेव य । खेमं सिवं अणाबाहं जं तरंति महेसिणो ॥ ८३ ॥
व्याख्या–निर्वाति-कर्माग्निविध्यापनाच्छीतीभवन्त्यस्मिन्निति निर्वाणं 'इतिशब्दः स्वरूपप्रदर्शको यत्रापि नास्ति तत्राप्यध्याहार्यः' ततः 'उच्यत इत्यध्याहृत्य' निर्वाणमिति यदुच्यते, अबाधमिति यदुच्यते, सिद्धिरिति यदुच्यते, लोकाग्रमिति यदुच्यत इति व्याख्येयं । क्षेमं शिवमनाबाधमिति च प्राग्वत् । यदिति यत् स्थानं 'विभक्तिव्यत्ययाद्' यत्र स्थाने वा तरन्ति प्लवन्ते गच्छन्तीत्यर्थो महर्षयो महामुनयः ॥८३॥
एवंविधं किं तद् ? इत्याह
तं ठाणं सासयंवासं लोगग्गंमि दुरारुहं ।
जं संपत्ता न सोयंति भवोहंतकरा मुणी ॥८४॥
व्याख्या–तत् स्थानं 'उक्तमिति प्रक्रमः' । 'बिन्दोरलाक्षणिकत्वात्' शाश्वतवासं नित्यावस्थितं ध्रुवमिति यावत् । लोकाग्रे दुरारोहम् 'उपलक्षणत्वाज्जराद्यभाववच्च' यत् सम्प्राप्ता न शोचन्ते कीदृशाः सन्तः ? इत्याह- भवा नारकादयस्तेषामोघः पुनः पुनर्भावरूपः प्रवाहस्तस्यान्तकराः पर्यन्तविधायिनो भवौघान्तकरा मुनय इति ॥८४॥
केशिराह
साहु गोयम ! पन्ना ते छिन्नो मे संसओ इमो । नमो ते संसयातीत ! सव्वसुत्तमहोयही ! ॥८५॥
व्याख्या–नमः 'अस्त्विति शेषः ' 'ते' तुभ्यं संशयातीत ! सन्देहातिक्रान्त !
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org