________________
६३४
उत्तरज्झयणाणि-२ गौतम आह
उग्गओ विमलो भाणू सव्वलोगप्पभंकरो ।
सो करिस्सइ उज्जोयं सव्वलोगंमि पाणिणं ॥७६॥ व्याख्या-उद्गत उदितो विमलो निर्मलो भानुः सूर्यः सर्वलोकप्रभाकरः सर्वजगत्प्रकाशविधाता स करिष्यत्युद्योतम् । सर्वस्मिन् लोके प्राणिनां प्राणाः सन्ति येषां ते प्राणिनस्तेषां जीवानां ॥७६।।
भाणू य इइ के वुत्ते केसी गोयममब्बवी ।
केसिमेवं बुवंतं तु गोयमो इणमब्बवी ॥७७॥ व्याख्या-भानुः रविः क उक्तो य उद्द्योतं करिष्यतीति प्रक्रमः ॥७७|| गौतम आह
उग्गओ खीणसंसारो सव्वण्णू जिणभक्खरो ।
सो करिस्सइ उज्जोयं सव्वलोगंमि पाणिणं ॥७८॥ व्याख्या-उद्गत उदयं प्राप्तः क्षीणसंसार: सर्वज्ञो जिनभास्करोऽर्हदादित्यः । उद्द्योतं समस्तवस्तुप्रकाशनं करिष्यति । शेषं स्पष्टम् ॥७८।। केशिराह
साहु गोयम ! पन्ना ते छिन्नो मे संसओ इमो ।
अन्नो वि संसओ मज्झं तं मे कहस गोयमा ! ॥७९॥ विदितार्था ॥७९॥
सारीर-माणसे दुक्खे बज्झमाणाण पाणिणं ।
खेमं सिवं अणाबाहं ठाणं किं मन्नसी मुणी ? ॥८०॥ व्याख्या-शारीर-मानसैर्दुःखैः 'सूत्रत्वात् तृतीया' बाध्यमानानां पीड्यमानानां प्राणिनां क्षेमं व्याधिरहिततया, शिवं सकलोपद्रवाभावतः, अनाबाधं स्वाभाविकबाधाऽपगमात्, स्थानमाश्रयस्तदेवंविधं किं मन्यसे प्रतिजानीषे ? न किञ्चिदीदृशं निश्चिनुम इति भावः ॥८॥ गौतम आह
अत्थि एगं धुवं ठाणं लोगग्गंमि दुरारुहं । जत्थ नत्थि जरा मच्चू वाहिणो वेयणा तहा ॥८१॥
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org