________________
६३२
गौतम आह
अत्थि एगो महादीवो वारिमज्झे महालओ । महाउदगवेगस्स गई तत्थ न विज्जई ॥ ६६ ॥ .
व्याख्या - अस्त्येको महांश्चासौ द्वीपश्च महाद्वीपो वारिमध्ये जलस्यान्तः समुद्रान्तर्वर्त्यन्तर्द्वीप इत्यर्थः । ' महालओ' त्ति महानुच्चैस्त्वेन विस्तीर्णतया चालयः स्थानं यस्य स महालयोऽत एव महोदकवेगस्य क्षुभितपातालकलशवातेरितप्रवृद्धजलमहास्रोतोवेगस्य गतिर्गमनं तत्र द्वीपे न विद्यते ||६६ ||
उत्तरज्झयणाणि - २
दीवे य इइ के वुत्ते केसी गोयममब्बवी । केसिमेवं बुवंतं तु गोयमो इणमब्बवी ॥६७॥ व्याख्या - द्वीपः क उक्तः ? इत्यादि गतार्था ॥६७॥ गौतम आह
जरा - मरणवेगेणं वुज्झमाणाण पाणिणं । धम्मो दीवो पट्ठा य गई सरणमुत्तमं ॥ ६८ ॥
व्याख्या-जरा-मरणे एव निरन्तरप्रवाहप्रवृत्ततया वेगः 'प्रक्रमादुदकमहास्रोतसः' जरा - मरणवेगस्तेनोह्यमानानामपरापरपर्यायनयनेन प्राणिनां धर्मः श्रुतादिः द्वीप इव द्वीप उक्तः । स हि भवोदधिमध्यवर्ती मुक्तिपदहेतुतया जरा - मरणवेगस्यागम्योऽत एव तमाश्रित्य विवेकिनस्तिष्ठन्तीति प्रतिष्ठा, गतिः, शरणं चोत्तममिति । इह द्वीपमात्रप्रश्ने यदुदकवेगप्रश्नस्याभिधानं तत् प्रक्रमोपलक्षणम् ॥६८॥
केशिराह
साहु गोयम ! पन्ना ते छिन्नो मे संसओ इमो । अन्नो वि संसओ मज्झं तं मे कहसु गोयमा ! ॥ ६९ ॥
उक्तार्था ॥६९॥
अण्णवंसि महोहंसि नावा विपरिधावई ।
जंसि गोयममारूढो कहं पारं गमिस्ससि ? ॥७०॥
व्याख्या - अर्णवे समुद्रे महौघे बृहज्जलप्रवाहे नौर्दोणी कष्टाम्बुवाहिनी विपरिधावति विशेषेण समन्ताद् गच्छति 'जंसि' त्ति यस्यां नावि वेडायां हे गौतम ! आरूढश्चटितः 'त्वमिति गम्यम्' । ततः कथं पारं पर्यन्तं 'प्रक्रमादर्णवस्य' गमिष्यसि ? न कथञ्चिदित्यर्थः ॥७०॥
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org