SearchBrowseAboutContactDonate
Page Preview
Page 207
Loading...
Download File
Download File
Page Text
________________ त्रयोविंशं केशि-गौतमीयमध्ययनम् ६३१ व्याख्या-ये केचन्मार्गेण प्रस्तावात् सन्मार्गेण गच्छन्ति, ये चोन्मार्गप्रस्थिता उत्पथप्रवृत्तास्ते सर्वे विदिताः प्रतीता मम ततः पथाऽपथपरिज्ञानान्न नश्याम्यहं मुने ! । ये हि पथापथस्वरूपानभिज्ञास्ते हि कुपथभ्रान्ता नश्येयुरहं न तथेति भावः ॥६॥ केशिराह मग्गे य इइ के वुत्ते केसी गोयममब्बवी । केसिमेवं बुवंतं तु गोयमो इणमब्बवी ॥६२॥ व्याख्या-मार्गः सन्मार्गः 'उपलक्षणात् कुमार्गश्च' क उक्तः ? । शेषं स्पष्टम् ॥६२।। गौतम आह कप्पवयणपासंडी सव्वे उम्मग्गपट्रिया । सम्मग्गं तु जिणक्खायं एस मग्गो हि उत्तमो ॥६३॥ व्याख्या-कुप्रवचनेषु कपिलाद्युपदिष्टकुमतेषु पाखण्डिनो व्रतिनः कुप्रवचनपाखण्डिनः सर्वे उन्मार्ग प्रस्थिताः । 'अनेन कुप्रवचनानि कुपथा इत्युक्तं स्यात्' सन्मार्ग तु पुनः 'जानीयादिति शेषः' जिनाख्यातम् । एष मार्गो हिर्यस्मादुत्तमोऽन्यमार्गेभ्यः प्रधानस्तस्मादयमेव सन्मार्ग इति भावः । उत्तमत्वं चास्य प्रणेतृणां रागादिविकलत्वेनेति भावनीयम् ॥६३।। केशिराह साहु गोयम ! पन्ना ते छिन्नो मे संसओ इमो । अन्नो वि संसओ मज्झं तं मे कहसु गोयमा ! ॥६४॥ पूर्ववत् ॥६४॥ महाउदगवेगेणं वुज्झमाणाण पाणिणं ।। सरणं गई पइट्ठा य दीवं कं मन्नसी मुणी ? ॥६५॥ व्याख्या-महदुदकं पानीयं यत्र तन्महोदकं प्रक्रमान्महास्रोतस्तस्य वेगो रयो महोदकवेगस्तेनोह्यमानानां नीयमानानां प्राणिनां शरणं तन्निवारणक्षममत एव गम्यमानत्वाद् गतिः स्थिरावस्थानहेतुं च प्रतिष्ठा द्वीपं च कं मन्यसे मुने ! नास्त्येव कश्चन तादृशो द्वीप इति प्रश्नयितुराशयः ॥६५।। ___Jain Education International 2010_02 For Private & Personal Use Only www.jainelibrary.org
SR No.002566
Book TitleAgam 43 Mool 04 Uttaradhyayan Sutra Part 02
Original Sutra AuthorN/A
AuthorKamalsanyamvijay, Vajrasenvijay
PublisherBhadrankar Prakashan
Publication Year2009
Total Pages516
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_uttaradhyayan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy