________________
६३०
उत्तरज्झयणाणि-२ गौतम आह
पहावंतं निगिण्हामि सुयरस्सीसमाहियं ।
न मे गच्छड् उम्मग्गं मग्गं च पडिवज्जई ॥५६॥ व्याख्या-प्रधावन्तमुन्मार्गाभिमुखं गच्छन्तं निगृह्णामि निरुणध्मि 'तमश्वमिति शेषः' कीदृशं सन्तम् ? इत्याह-श्रुतमागमो नियन्त्रकतया रश्मिमरिव रश्मिर्बला श्रुतरश्मिस्तेन समाहितो बद्धस्तम् । अतो न मे मम दुष्टाश्वो गच्छत्युन्मार्गं ततो न मम तेन हरणमिति भावः । मार्ग सत्पथं पुनः प्रतिपद्यतेऽङ्गीकुरुते ॥५६।।
अस्से य इइ के वुत्ते केसी गोयममब्बवी ।
तओ केसि बुवंतं तु गोयमो इणमब्बवी ॥५७॥ व्याख्या-सोऽश्व इति क उक्तोऽभिप्रेतो भवतेत्यादि स्पष्टम् ॥५७।। गौतम आह
मणो साहसिओ भीमो दुट्ठस्सो परिधावई ।
तं सम्मं तु निगिण्हामि धम्मसिक्खाए कंथगं ॥५८॥ व्याख्या-मनश्चित्तं साहसिको भीमश्च प्राग्वत् । दुष्टाश्वः परिधावति तं सम्यग् निगृह्णामि धर्मशिक्षायै धर्माभ्यासनिमित्तं कन्थकमिव जात्याश्वमिव । कोऽर्थः ? दुष्टाश्वोऽपि निग्रहणयोग्यो जात्याश्वप्राय एव ॥५८॥ . . केशिराह
साहु गोयम ! पन्ना ते छिन्नो मे संसओ इमो ।
अन्नो वि संसओ मज्झं तं मे कहसु गोयमा ! ॥५९॥ सूत्रं तथैव ॥५९॥
कुप्पहा बहवो लोए जेसिं नासंति जंतवो । __ अद्धाणे कह वर्सेतो तं न नस्ससि गोयमा ! ॥६०॥ व्याख्या-कुत्सिताः पन्थानः कुपथा अशोभनमार्गा बहवो लोके यैः कुपथैनश्यन्ति सन्मार्गाद् भ्रश्यन्ति जन्तवस्ततश्चाध्वनि प्रस्तावात् सन्मार्गे 'कह'त्ति कथं वर्तमानं त्वं न नश्यसि न सत्पथाच्च्यवसे ? हे गौतम ! ॥६०॥ ततो गौतम आह
जे य मग्गेण गच्छंति जे य उम्मग्गपट्ठिया । ते सव्वे विइया मज्झं तो न नस्सामहं मुणी ! ॥६१॥
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org