________________
त्रयोविंशं केशि-गौतमीयमध्ययनम्
६२९ व्याख्या-महामेघात् प्रसूतमुत्पन्नं महामेघप्रसूतं तस्मान्महास्रोतस इति गम्यम् । 'गिज्झ' त्ति गृहीत्वा वारि पानीयं जलोत्तमं शेषजलेषु प्रधानं तेन सिञ्चामि विध्यापमायि सततमनवरतं 'ते उ' त्ति तानग्नीन् ततः सिक्तास्तु 'नो व' त्ति नैव दहन्ति 'मे' त्ति माम्॥५१॥
अग्गी य इइ के वुत्ते केसी गोयममब्बवी ।
तओ केसि बुवंतं तु गोयमो इणमब्बवी ॥५२॥ व्याख्या-सुगमा, नवरमग्निप्रश्ने महामेघादिप्रश्नोपलक्षणम् ॥५२॥ गौतम आह
कसाया अग्गिणो वुत्ता सुय-सील-तवो जलं ।
सुयधाराभिहया संता भिन्ना हु न डहति मे ॥५३॥ व्याख्या-कषायाः क्रोधादयश्चत्वारः परितापकतया चाग्नय उक्ताः 'तीर्थकृद्भिरिति गम्यम्' श्रुतं च 'उपचारात् कषायोपशमकास्तद्गतोपदेशा:' शीलं महाव्रतानि, तपो द्वादशभेदं ततो द्वन्द्वे श्रुत-शील-तपस्तदेव जलं 'उपलक्षणान्महामेघस्तीर्थकृन्महास्रोतश्च तदुत्पन्न आगमः' ततश्च श्रुतस्य 'उपलक्षणत्वाच्छील-तपसोश्च' धारा इव धारा आक्रोश-हनन-तर्जन-धर्मभ्रंशादिषूत्तरोत्तराभावस्य लाभरूपतादिभावनास्ताभिरऽभिहतास्ताडिताः श्रुतधाराभिहताः सन्त उक्तरूपा अग्नयो भिन्ना विदारितास्तदभिघातेन लवमात्रीकृता इत्यर्थः । 'हुः' यस्मान्न दहन्ति माम् ॥५३॥ पुनः केशिराह
साहु गोयम ! पन्ना ते छिन्नो मे संसओ इमो ।
अन्नो वि संसओ मज्झं तं मे कहस गोयमा ! ॥५४॥ स्पष्टम् ॥५४॥
अयं साहसिओ भीमो दुट्ठस्सो परिधावई ।
जंसि गोयममारूढो कहं तेण न हीरसी ? ॥५५॥ व्याख्या-अयं प्रत्यक्षः सहसाऽसमीक्ष्य प्रवर्तते इति साहसिको भीमः प्राग्वत् । दुष्टश्चासावकार्यप्रवृत्त्याश्वश्च दुष्टाश्चः परिधावति समन्ताद् गच्छति । 'जंसि'त्ति यस्मिन् हे गौतमारूढश्चटितः सन् कथं तेन दुष्टाश्वेन न हियसे प्रस्तावान्नोन्मार्ग नीयसे ? ॥५५॥
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org