________________
६२८
उत्तरज्झयणाणि-२ गौतम आह
तं लयं सव्वसो छित्ता उद्धरित्ता समूलियं ।
विहरामि जहानायं मुक्को मि विसभक्खणं ॥४६॥ व्याख्या-तां लतां 'सव्वसो'त्ति सर्वां छित्त्वोद्धत्योत्पाट्य समूलामेव समलिकां मूलसहितां राग-द्वेषलक्षणमूलनिर्मूलनेन विहरामि यथान्यायं मुक्तोऽस्मि ‘विसभक्खणं'ति सुब्व्यत्ययाद् विषभक्षणाद् विषफलास्वादोपमात् क्लिष्टकर्मणः ॥४६॥
लया य इइ का वुत्ता ? केसी गोयममब्बवी ।
तओ केसि बुवंतं तु गोयमो इणमब्बवी ॥४७॥ लतेति का उक्ता ? इत्यादि सुगमम् ॥४७॥
भवतण्हा लया वुत्ता भीमा भीमफलोदया ।
तमुच्छित्तु जहानायं विहरामि महामुणी ॥४८॥ व्याख्या-भवः संसारस्तस्मिंस्तृष्णा लोभात्मिका लतोक्ता भीमा भयदा स्वरूपतः, कार्यतश्च भीमो दुःखहेतुतया फलानामर्थात् क्लिष्कर्मणामुदयः परिपाको यस्याः सा तथा । तामुद्धृत्योत्पाट्य यथाज्ञातं तथा विहरामि महामुने ! ॥४८॥ पुनः केशिराह
साहु गोयम ! पन्ना ते छिन्नो मे संसओ इमो ।
अन्नो वि संसओ मज्झं तं मे कहसु गोयमा ! ॥४९॥ गतार्था ॥४९॥
संपज्जलिया घोरा अग्गी चिट्ठई गोयमा ।
जे डहंति सरीरत्था कहं विज्झाविया तुमे ? ॥५०॥ व्याख्या समन्तात् प्रकर्षेण ज्वलिताः सम्प्रज्वलिता अत एव घोरा रौद्राः 'अग्गी चिट्ठई'त्ति वचनव्यत्ययादग्नयस्तिष्ठन्ति हे गौतम ! ये दहन्तीव दहन्ति परितापकारितया शरीरस्था देहस्था न बहिर्वर्तिनः । देहात्मनोरभेदोपचारादात्मस्था इत्यर्थः । ते कथं विध्यापिता निर्वापितास्त्वया ? ॥५०॥ गौतमः प्राह
महामेहप्पसूयाओ गिज्झ वारि जलुत्तमं । सिंचामि सययं ते उ सित्ता नो व डहंति मे ॥५१॥
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org