________________
त्रयोविंशं केशि-गौतमीयमध्ययनम्
६२७ शरीरिणो जीवाः । मुक्तपाशो लघुभूतो वायुस्ततश्च लघुभूत इव लघुभूतः सर्वत्राप्रतिबद्धत्वात् कथं त्वं विहरसि हे मुने ! ॥४०॥ गौतम आह
ते पासे सव्वसो छित्ता निहंतूण उवायओ ।
मुक्कपासो लहुब्भूओ विहरामि अहं मुणी ॥४१॥ व्याख्या-तान् पाशान् लोकबन्धकान् ‘सव्वसो'त्ति सूत्रत्वात् सर्वान् छित्त्वा त्रोटयित्वा निहत्य पुनर्बन्धाभावेन विनाश्योपायतः सद्भूतभावनाभ्यासात् । मुक्तपाशो लघुभूतः सन् विचराम्यहं हे मुने ! ॥४१॥ ततः
पासा य इइ के वुत्ता ? केसी गोयममब्बवी ।
केसिं एवं बुवंतं तु गोयमो इणमब्बवी ॥४२॥ व्याख्या-पाशाश्च 'के वुत्ता' त्ति उक्ताः ? । शेषं प्राग्वत् ॥४२॥
राग-द्दोसादओ तिव्वा नेहपासा भयंकरा ।
ते छिदित्तु जहानायं विहरामि जहक्कमं ॥४३॥ व्याख्या-राग-द्वेषादयः 'आदिशब्दान्मोहादिग्रहः' तीव्रा गाढास्तथा स्नेहाः पुत्रादिसम्बन्धास्ते पाशा इव पारवश्यहेतुत्वात् पाशा भयङ्करास्त्रासोत्पादका अनर्थहेतुततया । तान् छित्त्वा यथान्यायं विहरामि विचरामि यथाक्रमं क्रमो यत्याचारस्तदनतिक्रमेण ॥४३।। केशिः प्राह
साहु गोयम ! पन्ना ते छिन्नो मे संसओ इमो ।
अन्नो वि संसओ मज्झं तं मे कहसु गोयमा ! ॥४४॥ पूर्ववत् ॥४४॥
अंतोहिययसंभूया लया चिठ्ठइ गोयमा ।
फलेइ विसभक्खीणि सा उ उद्धरिया कहं ? ॥४५॥ व्याख्या-हृदयस्यान्तरन्तर्हदयं मनस्तत्र सम्भूता लता तिष्ठति भो गौतम ! फलति विषवद् भक्ष्यन्त इति विषभक्षीणि पर्यन्तदारुणतया विषोपमानि 'फलानीति गम्यम्' सा पुनरुद्धृतोत्पाटिता कथं ? 'त्वयेति योज्यम्' ॥४५॥
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org