SearchBrowseAboutContactDonate
Page Preview
Page 202
Loading...
Download File
Download File
Page Text
________________ ६२६ उत्तरज्झयणाणि-२ गौतम आह एगे जिए जिया पंच पंच जिए जिया दस । दसहा उ जिणित्ता णं सव्वसत्तू जिणाम हं ॥३६॥ व्याख्या-एकस्मिन् सर्वभावशत्रुप्रधाने आत्मनि जिते जिताः पञ्च, कथम् ? एक: स एवान्ये चत्वारः कषायाः । 'पंच जिए'त्ति सूत्रत्वात् पञ्चसु जितेषु जिता दश, अत्रापि पञ्चोक्ता एवापराणि च पञ्चेन्द्रियाणि ततो दशधा दश प्रकारानुक्तरूपांस्तु पुनः शत्रून् जित्वा 'णमित्यलङ्कारे' सर्वशत्रून् नोकषायादींस्तदुत्तरोत्तरभेदांश्चानेकसहस्रसङ्ख्यान् जयाम्यहम् ॥३६॥ ततश्च सत्तू य इइ के वुत्ते केसी गोयममब्बवी । तओ केसि बुवंतं तु गोयमो इणमब्बवी ॥३७॥ व्याख्या-शत्रुश्च क उक्तः ? इति केशिौतममब्रवीत् । शेषं स्पष्टम् ॥३७॥ एगप्पा अजिए सत्तू कसाया इंदियाणि य । ते जिणित्तू जहानायं विहरामि अहं मुणी ॥३८॥ व्याख्या-एक आत्मेति जीवश्चित्तं वा, अतति गच्छति तांस्तान् भावानांश्चेति व्युत्पत्तेः । अथवा आत्मैव चित्तं तदभेदोपचारात् । अजितोऽवशीकृतोऽनेकानर्थहेतुत्वाच्छत्रुरिव शत्रुस्तत एव हेतोः कषाया इन्द्रियाणि 'चशब्दान्नोकषायादयः कषायाद्युत्तरभेदाश्च' 'अजिताः शत्रव इति योज्यम्' । तान् शत्रून् जित्वा यथान्यायं यथोक्तनीत्या विहरामि 'तन्मध्येऽपि तिष्ठन्, अप्रतिबद्धविहारितयेति गम्यम्' अहं हे मुने ! ॥३८॥ पुनः केशिराह साहु गोयम ! पन्ना ते छिन्नो मे संसओ इमो । अन्नो वि संसओ मज्झं तं मे कहसु गोयमा ! ॥३९॥ प्राग्वत् ॥३९॥ तथा दीसंति बहवे लोए पासबद्धा सरीरिणो । मुक्कपासो लहुब्भूओ कहं तं विहरसि मुणी ? ॥४०॥ व्याख्या-दृश्यन्ते बहवोऽनेके लोके जगति पाशैर्बद्धा नियन्त्रिताः पाशबद्धाः Jain Education International 2010_02 For Private & Personal Use Only www.jainelibrary.org
SR No.002566
Book TitleAgam 43 Mool 04 Uttaradhyayan Sutra Part 02
Original Sutra AuthorN/A
AuthorKamalsanyamvijay, Vajrasenvijay
PublisherBhadrankar Prakashan
Publication Year2009
Total Pages516
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_uttaradhyayan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy