________________
त्रयोविंशं केशि-गौतमीयमध्ययनम्
६२५ व्याख्या-प्रत्ययार्थं चामी वतिन इति प्रतीतिनिमित्तं लोकस्य, अन्यथा हि यथाऽभिरुचितं वेषमादाय पूजाद्यर्थं विडम्बकादयोऽपि वयं वतिन इत्यभिहितवन्तः, ततो व्रतिष्वपि न लोकस्य वतिन इति प्रतीतिः स्यात् । किं तद् ? इत्याह-नानाविधविकल्पनं 'प्रक्रमान्नानाविधोपकरणपरिकल्पनं' नानाविधवर्षाकल्पाद्युपकरणं हि यथावद् यतिष्वेव सम्भवतीति कथं तत्प्रत्ययहेतुर्न स्यात् ? । तथा यात्रा संयमनिर्वाहस्तदर्थं, वर्षाकल्पादिकं विना हि वृष्ट्यादौ संयमे बाधैव स्यात् । ग्रहणं ज्ञानं तदर्थं च, कथञ्चिच्चित्तविप्लवोत्पत्तावपि यथाहं व्रतीत्येतदर्थं लोके लिङ्गस्य वेषधारणस्य प्रयोजनमिति प्रवर्तनं लिङ्गप्रयोजनम् ॥३२॥
अह भवे पइन्ना उ मुक्खसब्भूयसाहणा ।
नाणं च दंसणं चेव चरित्तं चेव निच्छए ॥३३॥ व्याख्या-अथ 'भवे पइन्ना उत्ति 'तुरेवकारार्थे भिन्नक्रमश्च' ततो भवेदेव प्रतिज्ञाऽभ्युपगमः ‘प्रक्रमात् पार्श्व-वीरयोः' सा का ? इत्याह-मोक्षस्य सद्भूतानि तात्त्विकत्वात् साधनानि हेतुत्वान्मोक्षसद्भूतसाधनानि । कानि ? इत्याह-ज्ञानं च दर्शनं च चारित्रं च 'एवकारोऽवधारणे' स च लिङ्गस्य मुक्तिसाधनतां व्यवच्छिनत्ति यतो ज्ञानाद्येव मुक्तिसाधनं, न तु लिङ्ग, श्रूयते हि भरतादीनां लिङ्गं विनाऽपि केवलोत्पत्तिः, निश्चये निश्चयनये विचार्ये । एष च लिङ्गं प्रत्याद्रियत एव न, व्यवहार एव तूक्तहेतुभिस्तदिच्छतीति तद्भेदस्य तत्त्वतोऽकिञ्चित्करत्वान्न विदुषां विप्रत्ययहेतुतेत्याशयः ॥३३॥ केशिराह
साहु गोयम ! पन्ना ते छिन्नो मे संसओ इमो ।
अन्नो वि संसओ मज्झं तं मे कहसु गोयमा ! ॥३४॥ प्राग्वत् ॥३४॥
अणेगाण सहस्साणं मज्झे चिट्ठसि गोयमा ! ।
ते य ते अभिगच्छंति कहं ते निज्जिया तुमे ? ॥३५॥ व्याख्या अनेकानां सहस्राणां 'प्रक्रमाच्छत्रुसम्बन्धिनां' मध्ये तिष्ठस्यास्से हे गौतम ! 'ते य'त्ति ते च शत्रवस्ते इति त्वामभिलक्षीकृत्य गच्छन्ति धावन्त्य
ज्जेतुमिच्छन्ति । तत् कथं ते इत्युक्तरूपाः शत्रवो निर्जितास्त्वया भूयस्त्वात् तेषामिति भावः ॥३५॥
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org